1
संजय उवाच ततॊ धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम पुनर एव महानादं वयसृजन्त महारथाः 2 पाण्डवाः सॊमकाश चैव ये चैषाम अनुयायिनः दध्मुश च मुदिताः शङ्खान वीराः सागरसंभवान 3 ततॊ भेर्यश च पेश्यश च करकचा गॊविषाणिकाः सहसैवाभ्यहन्यन्त ततः शब्दॊ महान अभूत 4 अथ देवाः सगन्धर्वाः पितरश च जनेश्वर सिद्धचारणसंघाश च समीयुस ते दिदृक्षया 5 ऋषयश च महाभागाः पुरस्कृत्य शतक्रतुम समीयुस तत्र सहिता दरष्टुं तद वैशसं महत 6 ततॊ युधिष्ठिरॊ दृष्ट्वा युद्धाय सुसमुद्यते ते सेने सागरप्रख्ये मुहुः परचलिते नृप 7 विमुच्य कवचं वीरॊ निक्षिप्य च वरायुधम अवरुह्य रथात तूर्णं पद्भ्याम एव कृताञ्जलिः 8 पितामहम अभिप्रेक्ष्य धर्मराजॊ युधिष्ठिरः वाग्यतः परययौ येन पराङ्मुखॊ रिपुवाहिनीम 9 तं परयान्तम अभिप्रेक्ष्य कुन्तीपुत्रॊ धनंजयः अवतीर्य रथात तूर्णं भरातृभिः सहितॊ ऽनवयात 10 वासुदेवश च भगवान पृष्ठतॊ ऽनुजगाम ह यथामुख्याश च राजानस तम अन्वाजग्मुर उत्सुकाः 11 अर्जुन उवाच किं ते वयवसितं राजन यद अस्मान अपहाय वै पद्भ्याम एव परयातॊ ऽसि पराङ्मुखॊ रिपुवाहिनीम 12 भीमसेन उवाच कव गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः दंशितेष्व अरिसैन्येषु भरातॄन उत्सृज्य पार्थिव 13 नकुल उवाच एवंगते तवयि जयेष्ठे मम भरातरि भारत भीर मे दुनॊति हृदयं बरूहि गन्ता भवान कव नु 14 सहदेव उवाच अस्मिन रणसमूहे वै वर्तमाने महाभये यॊद्धव्ये कव नु गन्तासि शत्रून अभिमुखॊ नृप 15 संजय उवाच एवम आभाष्यमाणॊ ऽपि भरातृभिः कुरुनन्दन नॊवाच वाग्यतः किं चिद गच्छत्य एव युधिष्ठिरः 16 तान उवाच महाप्राज्ञॊ वासुदेवॊ महामनाः अभिप्रायॊ ऽसय विज्ञातॊ मयेति परहसन्न इव 17 एष भीष्मं तथा दरॊणं गौतमं शल्यम एव च अनुमान्य गुरून सर्वान यॊत्स्यते पार्थिवॊ ऽरिभिः 18 शरूयते हि पुराकल्पे गुरून अननुमान्य यः युध्यते स भवेद वयक्तम अपध्यातॊ महत्तरैः 19 अनुमान्य यथाशास्त्रं यस तु युध्येन महत्तरैः धरुवस तस्य जयॊ युद्धे भवेद इति मतिर मम 20 एवं बरुवति कृष्णे तु धार्तराष्ट्रचमूं परति हाहाकारॊ महान आसीन निःशब्दास तव अपरे ऽभवन 21 दृष्ट्वा युधिष्ठिरं दूराद धार्तराष्ट्रस्य सैनिकाः मिथः संकथयां चक्रुर नेशॊ ऽसति कुलपांसनः 22 वयक्तं भीत इवाभ्येति राजासौ भीष्मम अन्तिकात युधिष्ठिरः ससॊदर्यः शरणार्थं परयाचकः 23 धनंजये कथं नाथे पाण्डवे च वृकॊदरे नकुले सहदेवे च भीतॊ ऽभयेति च पाण्डवः 24 न नूनं कषत्रियकुले जातः संप्रथिते भुवि यथास्य हृदयं भीतम अल्पसत्त्वस्य संयुगे 25 ततस ते कषत्रियाः सर्वे परशंसन्ति सम कौरवान हृष्टाः सुमनसॊ भूत्वा चैलानि दुधुवुः पृथक 26 वयनिन्दन्त ततः सर्वे यॊधास तत्र विशां पते युधिष्ठिरं ससॊदर्यं सहितं केशवेन ह 27 ततस तत कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम निःशब्दम अभवत तूर्णं पुनर एव विशां पते 28 किं नु वक्ष्यति राजासौ किं भीष्मः परतिवक्ष्यति किं भीमः समरश्लाघी किं नु कृष्णार्जुनाव इति 29 विवक्षितं किम अस्येति संशयः सुमहान अभूत उभयॊः सेनयॊ राजन युधिष्ठिरकृते तदा 30 स विगाह्य चमूं शत्रॊः शरशक्तिसमाकुलाम भीष्मम एवाभ्ययात तूर्णं भरातृभिः परिवारितः 31 तम उवाच ततः पादौ कराभ्यां पीड्य पाण्डवः भीष्मं शांतनवं राजा युद्धाय समुपस्थितम 32 युधिष्ठिर उवाच आमन्त्रये तवां दुर्धर्ष यॊत्स्ये तात तवया सह अनुजानीहि मां तात आशिषश च परयॊजय 33 भीष्म उवाच यद्य एवं नाभिगच्छेथा युधि मां पृथिवीपते शपेयं तवां महाराज पराभावाय भारत 34 परीतॊ ऽसमि पुत्र युध्यस्व जयम आप्नुहि पाण्डव यत ते ऽभिलषितं चान्यत तद अवाप्नुहि संयुगे 35 वरियतां च वरः पार्थ किम अस्मत्तॊ ऽभिकाङ्क्षसि एवं गते महाराज न तवास्ति पराजयः 36 अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः 37 अतस तवां कलीबवद वाक्यं बरवीमि कुरुनन्दन हृतॊ ऽसम्य अर्थेन कौरव्य युद्धाद अन्यत किम इच्छसि 38 युधिष्ठिर उवाच मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः युध्यस्व कौरवस्यार्थे ममैष सततं वरः 39 भीष्म उवाच राजन किम अत्र साह्यं ते करॊमि कुरुनन्दन कामं यॊत्स्ये परस्यार्थे बरूहि यत ते विवक्षितम 40 युधिष्ठिर उवाच कथं जयेयं संग्रामे भवन्तम अपराजितम एतन मे मन्त्रय हितं यदि शरेयः परपश्यसि 41 भीष्म उवाच न तं पश्यामि कौन्तेय यॊ मां युध्यन्तम आहवे विजयेत पुमान कश चिद अपि साक्षाच छतक्रतुः 42 युधिष्ठिर उवाच हन्त पृच्छामि तस्मात तवां पितामह नमॊ ऽसतु ते जयॊपायं बरवीहि तवम आत्मनः समरे परैः 43 भीष्म उवाच न शत्रुं तात पश्यामि समरे यॊ जयेत माम न तावन मृत्युकालॊ मे पुनरागमनं कुरु 44 संजय उवाच ततॊ युधिष्ठिरॊ वाक्यं भीष्मस्य कुरुनन्दन शिरसा परतिजग्राह भूयस तम अभिवाद्य च 45 परायात पुनर महाबाहुर आचार्यस्य रथं परति पश्यतां सर्वसैन्यानां मध्येन भरातृभिः सह 46 स दरॊणम अभिवाद्याथ कृत्वा चैव परदक्षिणम उवाच वाचा दुर्धर्षम आत्मनिःश्रेयसं वचः 47 आमन्त्रये तवां भगवन यॊत्स्ये विगतकल्मषः जयेयं च रिपून सर्वान अनुज्ञातस तवया दविज 48 दरॊण उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः शपेयं तवां महाराज पराभावाय सर्वशः 49 तद युधिष्ठिर तुष्टॊ ऽसमि पूजितश च तवयानघ अनुजानामि युध्यस्व विजयं समवाप्नुहि 50 करवाणि च ते कामं बरूहि यत ते ऽभिकाङ्क्षितम एवं गते महाराज युद्धाद अन्यत किम इच्छसि 51 अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः 52 अतस तवां कलीबवद बरूमॊ युद्धाद अन्यत किम इच्छसि यॊत्स्यामि कौरवस्यार्थे तवाशास्यॊ जयॊ मया 53 युधिष्ठिर उवाच जयम आशास्स्व मे बरह्मन मन्त्रयस्व च मद्धितम युध्यस्व कौरवस्यार्थे वर एष वृतॊ मया 54 दरॊण उवाच धरुवस ते विजयॊ राजन यस्य मन्त्री हरिस तव अहं च तवाभिजानामि रणे शत्रून विजेष्यसि 55 यतॊ धर्मस ततः कृष्णॊ यतः कृष्णस ततॊ जयः युध्यस्व गच्छ कौन्तेय पृच्छ मां किं बरवीमि ते 56 युधिष्ठिर उवाच पृच्छामि तवां दविजश्रेष्ठ शृणु मे यद विवक्षितम कथं जयेयं संग्रामे भवन्तम अपराजितम 57 दरॊण उवाच न ते ऽसति विजयस तावद यावद युध्याम्य अहं रणे ममाशु निधने राजन यतस्व सह सॊदरैः 58 युधिष्ठिर उवाच हन्त तस्मान महाबाहॊ वधॊपायं वदात्मनः आचार्य परणिपत्यैष पृच्छामि तवां नमॊ ऽसतु ते 59 दरॊण उवाच न शत्रुं तात पश्यामि यॊ मां हन्याद रणे सथितम युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम 60 ऋते परायगतं राजन नयस्तशस्त्रम अचेतनम हन्यान मां युधि यॊधानां सत्यम एतद बरवीमि ते 61 शस्त्रं चाहं रणे जह्यां शरुत्वा सुमहद अप्रियम शरद्धेयवाक्यात पुरुषाद एतत सत्यं बरवीमि ते 62 संजय उवाच एतच छरुत्वा महाराज भारद्वाजस्य धीमतः अनुमान्य तम आचार्यं परायाच छारद्वतं परति 63 सॊ ऽभिवाद्य कृपं राजा कृत्वा चापि परदक्षिणम उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः 64 अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः जयेयं च रिपून सर्वान अनुज्ञातस तवयानघ 65 कृप उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः शपेयं तवां महाराज पराभावाय सर्वशः 66 अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः 67 तेषाम अर्थे महाराज यॊद्धव्यम इति मे मतिः अतस तवां कलीबवद बरूमि युद्धाद अन्यत किम इच्छसि 68 युधिष्ठिर उवाच हन्त पृच्छामि ते तस्माद आचार्य शृणु मे वचः 69 संजय उवाच इत्य उक्त्वा वयथितॊ राजा नॊवाच गतचेतनः तं गौतमः परत्युवाच विज्ञायास्य विवक्षितम अवध्यॊ ऽहं महीपाल युध्यस्व जयम आप्नुहि 70 परीतस तव अभिगमेनाहं जयं तव नराधिप आशासिष्ये सदॊत्थाय सत्यम एतद बरवीमि ते 71 एतच छरुत्वा महाराज गौतमस्य वचस तदा अनुमान्य कृपं राजा परययौ येन मद्रराट 72 स शल्यम अभिवाद्याथ कृत्वा चाभिप्रदक्षिणम उवाच राजा दुर्धर्षम आत्मनिःश्रेयसं वचः 73 अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः जयेयं च महाराज अनुज्ञातस तवया रिपून 74 शल्य उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः शपेयं तवां महाराज पराभावाय वै रणे 75 तुष्टॊ ऽसमि पूजितश चास्मि यत काङ्क्षसि तद अस्तु ते अनुजानामि चैव तवां युध्यस्व जयम आप्नुहि 76 बरूहि चैव परं वीर केनार्थः किं ददामि ते एवं गते महाराज युद्धाद अन्यत किम इच्छसि 77 अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः 78 करिष्यामि हि ते कामं भागिनेय यथेप्सितम बरवीम्य अतः कलीबवत तवां युद्धाद अन्यत किम इच्छसि 79 युधिष्ठिर उवाच मन्त्रयस्व महाराज नित्यं मद्धितम उत्तमम कामं युध्य परस्यार्थे वरम एतद वृणॊम्य अहम 80 शल्य उवाच बरूहि किम अत्र साह्यं ते करॊमि नृपसत्तम कामं यॊत्स्ये परस्यार्थे वृतॊ ऽसम्य अर्थेन कौरवैः 81 युधिष्ठिर उवाच स एव मे वरः सत्य उद्यॊगे यस तवया कृतः सूतपुत्रस्य संग्रामे कार्यस तेजॊवधस तवया 82 शल्य उवाच संपत्स्यत्य एष ते कामः कुन्तीपुत्र यथेप्सितः गच्छ युध्यस्व विस्रब्धं परतिजाने जयं तव 83 संजय उवाच अनुमान्याथ कौन्तेयॊ मातुलं मद्रकेश्वरम निर्जगाम महासैन्याद भरातृभिः परिवारितः 84 वासुदेवस तु राधेयम आहवे ऽभिजगाम वै तत एनम उवाचेदं पाण्डवार्थे गदाग्रजः 85 शरुतं मे कर्ण भीष्मस्य दवेषात किल न यॊत्स्यसि अस्मान वरय राधेय यावद भीष्मॊ न हन्यते 86 हते तु भीष्मे राधेय पुनर एष्यसि संयुगे धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत समम 87 कर्ण उवाच न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव तयक्तप्राणं हि मां विद्धि दुर्यॊधनहितैषिणम 88 संजय उवाच तच छरुत्वा वचनं कृष्णः संन्यवर्तत भारत युधिष्ठिरपुरॊगैश च पाण्डवैः सह संगतः 89 अथ सैन्यस्य मध्ये तु पराक्रॊशत पाण्डवाग्रजः यॊ ऽसमान वृणॊति तद अहं वरये साह्यकारणात 90 अथ तान समभिप्रेक्ष्य युयुत्सुर इदम अब्रवीत परीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम 91 अहं यॊत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान युष्मद अर्थे महाराज यदि मां वृणुषे ऽनघ 92 युधिष्ठिर उवाच एह्य एहि सर्वे यॊत्स्यामस तव भरातॄन अपण्डितान युयुत्सॊ वासुदेवश च वयं च बरूम सर्वशः 93 वृणॊमि तवां महाबाहॊ युध्यस्व मम कारणात तवयि पिण्डश च तन्तुश च धृतराष्ट्रस्य दृश्यते 94 भजस्वास्मान राजपुत्र भजमानान महाद्युते न भविष्यति दुर्बुद्धिर धार्तराष्ट्रॊ ऽतयमर्षणः 95 संजय उवाच ततॊ युयुत्सुः कौरव्यः परित्यज्य सुतांस तव जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम 96 ततॊ युधिष्ठिरॊ राजा संप्रहृष्टः सहानुजैः जग्राह कवचं भूयॊ दीप्तिमत कनकॊज्ज्वलम 97 परत्यपद्यन्त ते सर्वे रथान सवान पुरुषर्षभाः ततॊ वयूहं यथापूर्वं परत्यव्यूहन्त ते पुनः 98 अवादयन दुन्दुभींश च शतशश चैव पुष्करान सिंहनादांश च विविधान विनेदुः पुरुषर्षभाः 99 रथस्थान पुरुषव्याघ्रान पाण्डवान परेक्ष्य पार्थिवाः धृष्टद्युम्नादयः सर्वे पुनर जहृषिरे मुदा 100 गौरवं पाण्डुपुत्राणां मान्यान मानयतां च तान दृष्ट्वा महीक्षितस तत्र पूजयां चक्रिरे भृशम 101 सौहृदं च कृपां चैव पराप्तकालं महात्मनाम दयां च जञातिषु परां कथयां चक्रिरे नृपाः 102 साधु साध्व इति सर्वत्र निश्चेरुः सतुतिसंहिताः वाचः पुण्याः कीर्तिमतां मनॊहृदयहर्षिणीः 103 मलेच्छाश चार्याश च ये तत्र ददृशुः शुश्रुवुस तदा वृत्तं तत पाण्डुपुत्राणां रुरुदुस ते सगद्गदाः 104 ततॊ जघ्नुर महाभेरीः शतशश चैव पुष्करान शङ्खांश च गॊक्षीरनिभान दध्मुर हृष्टा मनस्विनः |
1
saṃjaya uvāca tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam punar eva mahānādaṃ vyasṛjanta mahārathāḥ 2 pāṇḍavāḥ somakāś caiva ye caiṣām anuyāyinaḥ dadhmuś ca muditāḥ śaṅkhān vīrāḥ sāgarasaṃbhavān 3 tato bheryaś ca peśyaś ca krakacā goviṣāṇikāḥ sahasaivābhyahanyanta tataḥ śabdo mahān abhūt 4 atha devāḥ sagandharvāḥ pitaraś ca janeśvara siddhacāraṇasaṃghāś ca samīyus te didṛkṣayā 5 ṛṣayaś ca mahābhāgāḥ puraskṛtya śatakratum samīyus tatra sahitā draṣṭuṃ tad vaiśasaṃ mahat 6 tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate te sene sāgaraprakhye muhuḥ pracalite nṛpa 7 vimucya kavacaṃ vīro nikṣipya ca varāyudham avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ 8 pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm 9 taṃ prayāntam abhiprekṣya kuntīputro dhanaṃjayaḥ avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt 10 vāsudevaś ca bhagavān pṛṣṭhato 'nujagāma ha yathāmukhyāś ca rājānas tam anvājagmur utsukāḥ 11 arjuna uvāca kiṃ te vyavasitaṃ rājan yad asmān apahāya vai padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm 12 bhīmasena uvāca kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ daṃśiteṣv arisainyeṣu bhrātṝn utsṛjya pārthiva 13 nakula uvāca evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu 14 sahadeva uvāca asmin raṇasamūhe vai vartamāne mahābhaye yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa 15 saṃjaya uvāca evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana novāca vāgyataḥ kiṃ cid gacchaty eva yudhiṣṭhiraḥ 16 tān uvāca mahāprājño vāsudevo mahāmanāḥ abhiprāyo 'sya vijñāto mayeti prahasann iva 17 eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyam eva ca anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ 18 śrūyate hi purākalpe gurūn ananumānya yaḥ yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ 19 anumānya yathāśāstraṃ yas tu yudhyen mahattaraiḥ dhruvas tasya jayo yuddhe bhaved iti matir mama 20 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati hāhākāro mahān āsīn niḥśabdās tv apare 'bhavan 21 dṛṣṭvā yudhiṣṭhiraṃ dūrād dhārtarāṣṭrasya sainikāḥ mithaḥ saṃkathayāṃ cakrur neśo 'sti kulapāṃsanaḥ 22 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ 23 dhanaṃjaye kathaṃ nāthe pāṇḍave ca vṛkodare nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ 24 na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge 25 tatas te kṣatriyāḥ sarve praśaṃsanti sma kauravān hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak 26 vyanindanta tataḥ sarve yodhās tatra viśāṃ pate yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha 27 tatas tat kauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate 28 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāv iti 29 vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā 30 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ 31 tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam 32 yudhiṣṭhira uvāca āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha anujānīhi māṃ tāta āśiṣaś ca prayojaya 33 bhīṣma uvāca yady evaṃ nābhigacchethā yudhi māṃ pṛthivīpate śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata 34 prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge 35 vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi evaṃ gate mahārāja na tavāsti parājayaḥ 36 arthasya puruṣo dāso dāsas tv artho na kasya cit iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ 37 atas tvāṃ klībavad vākyaṃ bravīmi kurunandana hṛto 'smy arthena kauravya yuddhād anyat kim icchasi 38 yudhiṣṭhira uvāca mantrayasva mahāprājña hitaiṣī mama nityaśaḥ yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ 39 bhīṣma uvāca rājan kim atra sāhyaṃ te karomi kurunandana kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam 40 yudhiṣṭhira uvāca kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam etan me mantraya hitaṃ yadi śreyaḥ prapaśyasi 41 bhīṣma uvāca na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave vijayeta pumān kaś cid api sākṣāc chatakratuḥ 42 yudhiṣṭhira uvāca hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ 43 bhīṣma uvāca na śatruṃ tāta paśyāmi samare yo jayeta mām na tāvan mṛtyukālo me punarāgamanaṃ kuru 44 saṃjaya uvāca tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana śirasā pratijagrāha bhūyas tam abhivādya ca 45 prāyāt punar mahābāhur ācāryasya rathaṃ prati paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha 46 sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ 47 āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ jayeyaṃ ca ripūn sarvān anujñātas tvayā dvija 48 droṇa uvāca yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ 49 tad yudhiṣṭhira tuṣṭo 'smi pūjitaś ca tvayānagha anujānāmi yudhyasva vijayaṃ samavāpnuhi 50 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam evaṃ gate mahārāja yuddhād anyat kim icchasi 51 arthasya puruṣo dāso dāsas tv artho na kasya cit iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ 52 atas tvāṃ klībavad brūmo yuddhād anyat kim icchasi yotsyāmi kauravasyārthe tavāśāsyo jayo mayā 53 yudhiṣṭhira uvāca jayam āśāssva me brahman mantrayasva ca maddhitam yudhyasva kauravasyārthe vara eṣa vṛto mayā 54 droṇa uvāca dhruvas te vijayo rājan yasya mantrī haris tava ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi 55 yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te 56 yudhiṣṭhira uvāca pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam 57 droṇa uvāca na te 'sti vijayas tāvad yāvad yudhyāmy ahaṃ raṇe mamāśu nidhane rājan yatasva saha sodaraiḥ 58 yudhiṣṭhira uvāca hanta tasmān mahābāho vadhopāyaṃ vadātmanaḥ ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te 59 droṇa uvāca na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam 60 ṛte prāyagataṃ rājan nyastaśastram acetanam hanyān māṃ yudhi yodhānāṃ satyam etad bravīmi te 61 śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahad apriyam śraddheyavākyāt puruṣād etat satyaṃ bravīmi te 62 saṃjaya uvāca etac chrutvā mahārāja bhāradvājasya dhīmataḥ anumānya tam ācāryaṃ prāyāc chāradvataṃ prati 63 so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ 64 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ jayeyaṃ ca ripūn sarvān anujñātas tvayānagha 65 kṛpa uvāca yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ 66 arthasya puruṣo dāso dāsas tv artho na kasya cit iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ 67 teṣām arthe mahārāja yoddhavyam iti me matiḥ atas tvāṃ klībavad brūmi yuddhād anyat kim icchasi 68 yudhiṣṭhira uvāca hanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ 69 saṃjaya uvāca ity uktvā vyathito rājā novāca gatacetanaḥ taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi 70 prītas tv abhigamenāhaṃ jayaṃ tava narādhipa āśāsiṣye sadotthāya satyam etad bravīmi te 71 etac chrutvā mahārāja gautamasya vacas tadā anumānya kṛpaṃ rājā prayayau yena madrarāṭ 72 sa śalyam abhivādyātha kṛtvā cābhipradakṣiṇam uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ 73 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ jayeyaṃ ca mahārāja anujñātas tvayā ripūn 74 śalya uvāca yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe 75 tuṣṭo 'smi pūjitaś cāsmi yat kāṅkṣasi tad astu te anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi 76 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te evaṃ gate mahārāja yuddhād anyat kim icchasi 77 arthasya puruṣo dāso dāsas tv artho na kasya cit iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ 78 kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam bravīmy ataḥ klībavat tvāṃ yuddhād anyat kim icchasi 79 yudhiṣṭhira uvāca mantrayasva mahārāja nityaṃ maddhitam uttamam kāmaṃ yudhya parasyārthe varam etad vṛṇomy aham 80 śalya uvāca brūhi kim atra sāhyaṃ te karomi nṛpasattama kāmaṃ yotsye parasyārthe vṛto 'smy arthena kauravaiḥ 81 yudhiṣṭhira uvāca sa eva me varaḥ satya udyoge yas tvayā kṛtaḥ sūtaputrasya saṃgrāme kāryas tejovadhas tvayā 82 śalya uvāca saṃpatsyaty eṣa te kāmaḥ kuntīputra yathepsitaḥ gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava 83 saṃjaya uvāca anumānyātha kaunteyo mātulaṃ madrakeśvaram nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ 84 vāsudevas tu rādheyam āhave 'bhijagāma vai tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ 85 śrutaṃ me karṇa bhīṣmasya dveṣāt kila na yotsyasi asmān varaya rādheya yāvad bhīṣmo na hanyate 86 hate tu bhīṣme rādheya punar eṣyasi saṃyuge dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam 87 karṇa uvāca na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam 88 saṃjaya uvāca tac chrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata yudhiṣṭhirapurogaiś ca pāṇḍavaiḥ saha saṃgataḥ 89 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt 90 atha tān samabhiprekṣya yuyutsur idam abravīt prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram 91 ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān yuṣmad arthe mahārāja yadi māṃ vṛṇuṣe 'nagha 92 yudhiṣṭhira uvāca ehy ehi sarve yotsyāmas tava bhrātṝn apaṇḍitān yuyutso vāsudevaś ca vayaṃ ca brūma sarvaśaḥ 93 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt tvayi piṇḍaś ca tantuś ca dhṛtarāṣṭrasya dṛśyate 94 bhajasvāsmān rājaputra bhajamānān mahādyute na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ 95 saṃjaya uvāca tato yuyutsuḥ kauravyaḥ parityajya sutāṃs tava jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim 96 tato yudhiṣṭhiro rājā saṃprahṛṣṭaḥ sahānujaiḥ jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam 97 pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ 98 avādayan dundubhīṃś ca śataśaś caiva puṣkarān siṃhanādāṃś ca vividhān vineduḥ puruṣarṣabhāḥ 99 rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā 100 gauravaṃ pāṇḍuputrāṇāṃ mānyān mānayatāṃ ca tān dṛṣṭvā mahīkṣitas tatra pūjayāṃ cakrire bhṛśam 101 sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām dayāṃ ca jñātiṣu parāṃ kathayāṃ cakrire nṛpāḥ 102 sādhu sādhv iti sarvatra niśceruḥ stutisaṃhitāḥ vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ 103 mlecchāś cāryāś ca ye tatra dadṛśuḥ śuśruvus tadā vṛttaṃ tat pāṇḍuputrāṇāṃ rurudus te sagadgadāḥ 104 tato jaghnur mahābherīḥ śataśaś caiva puṣkarān śaṅkhāṃś ca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ |