1
[य] असौम्याः सौम्य रूपेण सौम्याश चासौम्य दर्शिनः ईदृशान पुरुषांस तात कथं विद्यामहे वयम 2 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम वयाघ्रगॊमायु संवादं तं निबॊध युधिष्ठिर 3 पुरिकायां पुरि पुरा शरीमत्यां पौरिकॊ नृपः परहिंसा रुचिः करूरॊ बभूव पुरुषाधमः 4 स तव आयुषि परिक्षीणे जगामानीप्सितां गतिम गॊमायुत्वं च संप्राप्तॊ दूषितः पूर्वकर्मणा 5 संस्मृत्य पूर्वजातिं स निवेदं परमं गतः न भक्षयति मांसानि परैर उपहृतान्य अपि 6 अहिंस्रः सर्वभूतेषु सत्यवाक सुदृढ वरतः चकार च यथाकामम आहारं पतितैः फलैः 7 शमशाने तस्य चावासॊ गॊमायॊः संमतॊ ऽभवत जन्म भूम्यनुरॊधाच च नान्यद वासम अरॊचयत 8 तस्य शौचम अमृष्यन्तः सर्वे ते सह जातयः चालयन्ति सम तां बुद्धिं वचनैः परश्रयॊत्तरैः 9 वसन पितृवने रौद्रे शौचं लप्सितुम इच्छसि इयं विप्रतिपत्तिस ते यदा तवं पिशिताशनः 10 तत समॊ वा भवास्माभिर भक्ष्यान दास्यामहे वयम भुङ्क्ष्व शौचं परित्यज्य यद धि भुक्तं तद अस्ति ते 11 इति तेषां वचः शरुत्वा परत्युवाच समाहितः मधुरैः परश्रितैर वाक्यैर हेतुमद्भिर अनिष्ठुरैः 12 अप्रमाणं परसूतिर मे शीलतः करियते कुलम परार्थयिष्ये तु तत कर्म येन विस्तीर्यते यशः 13 शमशाने यदि वासॊ मे समाधिर मे निशाम्यताम आत्मा फलति कर्माणि नाश्रमॊ धर्मलक्षणम 14 आश्रम्ये यॊ दविजं हन्याद गां वा दद्याद अनाश्रमे किं नु तत पातकं न सयात तद वा दत्तं वृथा भवेत 15 भवन्तः सर्वलॊभेन केवलं भक्षणे रताः अनुबन्धे तु ये दॊषास तान न पश्यन्ति मॊहिताः 16 अप्रत्यय कृतां गर्ह्याम अर्थापनय दूषिताम इह चामुत्र चानिष्टां तस्माद वृत्तिं न रॊचये 17 तं शुचिं पण्डितं मत्वा शार्दूलः खयातविक्रमः कृत्वात्म सदृशां पूजां साचिव्ये ऽवर्धयत सवयम 18 सौम्य विज्ञात रूपस तवं गच्छ यात्रां मया सह वरियन्ताम ईप्सिता भॊगाः परिहार्याश च पुष्कलाः 19 तीक्ष्णा वयम इति खयाता भवतॊ जञापयामहे मृदुपूर्वं घातिनस ते शरेयश चाधिगमिष्यति 20 अथ संपूज्य तद वाक्यं मृगेन्द्रस्य महात्मनः गॊमायुः परश्रितं वाक्यं बभाषे किं चिद आनतः 21 सदृशं मृगराजैतत तव वाक्यं मदन्तरे यत सहायान मृगयसे धर्मार्थकुशलाञ शुचीन 22 न शक्यम अनमात्येन महत्त्वम अनुशासितुम दुष्टामात्येन वा वीर शरीरपरिपन्थिना 23 सहायान अनुरक्तांस तु यतेतानुपसंहितान परस्परम असंघुष्टान विजिगीषून अलॊलुपान 24 तान अतीतॊपधान पराज्ञान हिते युक्तान मनस्विनः पूजयेथा महाभागान यथाचार्यान यथा पितॄन 25 न तव एवं मम संतॊषाद रॊचते ऽनयन मृगाधिप न कामये सुखान भॊगान ऐश्वर्यं वा तवदाश्रयम 26 न यॊक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः ते तवां विभेदयिष्यन्ति दुःखशीला मदन्तरे 27 संश्रयः शलाघनीयस तवम अन्येषाम अपि भास्वताम कृतात्मा सुमहाभागः पापकेष्व अप्य अदारुणः 28 दीर्घदर्शी महॊत्साहः सथूललक्ष्यॊ महाबलः कृती चामॊघ कर्तासि भाव्यैश च समलंकृतः 29 किं तु सवेनास्मि संतुष्टॊ दुःखा वृत्तिर अनुष्ठिता सेवायाश चापि नाभिज्ञः सवच्छन्देन वनेचरः 30 राजॊपक्रॊश दॊषाश च सर्वे संश्रयवासिनाम वनचर्या च निःसङ्गा निर्भया निरवग्रहा 31 नृपेणाहूयमानस्य यत तिष्ठति भयं हृदि न तत तिष्ठति तुष्टानां वने मूलफलाशिनाम 32 पानीयं वा निरायासं सवाद्व अन्नं वा भयॊत्तरम विचार्य खलु पश्यामि तत सुखं यत्र निर्वृतिः 33 अपराधैर न तावन्तॊ भृत्याः शिष्टा नराधिपैः उपघातैर यथा भृत्या दूषिता निधनं गताः 34 यदि तव एतन मया कार्यं मृगेन्द्रॊ यदि मन्यते समयं कृतम इच्छामि वर्तितव्यं यथा मयि 35 मदीया माननीयास ते शरॊतव्यं च हितं वचः कल्पिता या च ते वृत्तिः सा भवेत तव सुस्थिरा 36 न मन्त्रयेयम अन्यैस ते सचिवैः सह कर्हि चित नीतिमन्तः परीप्सन्तॊ वृथा बरूयुः परे मयि 37 एक एकेन संगम्य रहॊ बरूयां हितं तव न च ते जञातिकार्येषु परष्टव्यॊ ऽहं हिताहिते 38 मया संमन्त्र्य पश्चाच च न हिंस्याः सचिवास तवया मदीयानां च कुपितॊ मा तवं दण्डं निपातयेः 39 एवम अस्त्व इति तेनासौ मृगेन्द्रेणाभिपूजितः पराप्तवान मतिसाचिव्यं गॊमायुर वयाघ्रयॊनितः 40 तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि पराद्विषन कृतसंघाताः पूर्वभृत्या मुहुर मुहुः 41 मित्र बुद्ध्या च गॊमायुं सान्त्वयित्वा परवेश्य च दॊषेषु समतां नेतुम ऐच्छन्न अशुभ बुद्धयः 42 अन्यथा हय उचिताः पूर्वं परद्रव्यापहारिणः अशक्ताः किं चिद आदातुं दरव्यं गॊमायुयन्त्रिताः 43 वयुत्थानं चात्र काङ्क्षद्भिः कथाभिः परविलॊभ्यते धनेन महता चैव बुद्धिर अस्य विलॊभ्यते 44 न चापि स महाप्राज्ञस तस्माद धैर्याच चचाल ह अथास्य समयं कृत्वा विनाशाय सथिताः परे 45 ईप्सितं च मृगेन्द्रस्य मांसं यत तत्र संस्कृतम अपनीय सवयं तद धि तैर नयस्तं तस्य वेश्मनि 46 यदर्थं चाप्य अपहृतं येन यच चैव मन्त्रितम तस्य तद विदितं सर्वं कारणार्थं च मर्षितम 47 समयॊ ऽयं कृतस तेन साचिव्यम उपगच्छता नॊपघातस तवया गराह्यॊ राजन मैत्रीम इहेच्छता 48 भॊजने चॊपहर्तव्ये तन मांसं न सम दृश्यते मृगराजेन चाज्ञप्तं मृग्यतां चॊर इत्य उत 49 कृतकैश चापि तन मांसं मृगेन्द्रायॊपवर्णितम सचिवेनॊपनीतं ते विदुषा पराज्ञमानिन 50 सरॊषस तव अथ शार्दूलः शरुत्वा गॊमायुचापलम बभूवामर्षितॊ राजा वधं चास्याभ्यरॊचयत 51 छिद्रं तु तस्य तद दृष्ट्वा परॊचुस ते पूर्वमन्त्रिणः सर्वेषाम एव सॊ ऽसमाकं वृत्ति भङ्गेषु वर्तते 52 इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते शरुतश च सवामिना पूर्वं यादृशॊ नैव तादृशः 53 वान मात्रेणैव धर्मिष्ठः सवभावेन तु दारुणः धर्मच छद्मा हय अयं पापॊ वृथाचार परिग्रहः कार्यार्थं भॊजनार्थेषु वरतेषु कृतवाञ शरमम 54 मांसापनयनं जञात्वा वयाघ्रस तेषां तु तद वचः आज्ञापयाम आस तदा गॊमायुर वध्यताम इति 55 शार्दूलवचनं शरुत्वा शार्दूलजननी ततः मृगराजं हितैर वाक्यैः संबॊधयितुम आगमत 56 पुत्र नैतत तवया गराह्यं कपटारम्भ संवृतम कर्मसंघर्षजैर दॊषैर दुष्यत्य अशुचिभिः शुचिः 57 नॊच्छ्रितं सहते कश चित परक्रिया वैरकारिका शुचेर अपि हि युक्तस्य दॊष एव निपात्यते 58 लुब्धानां शुचयॊ दवेष्याः कातराणां तरस्विनः मूर्खाणां पण्डिता दवेष्या दरिद्राणां महाधनाः अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः 59 बहवः पण्डिता लुब्धाः सर्वे मायॊपजीविनः कुर्युर दॊषम अदॊषस्य बृहस्पतिमतेर अपि 60 शून्यात तच च गृहान मांसं यद अद्यापहृतं तव नेच्छते दीयमानं च साधु तावद विमृश्यताम 61 असत्याः सत्यसंकाशाः सत्याश चासत्य दर्शिनः दृश्यन्ते विधिना भावास तेषु युक्तं परीक्षणम 62 तलवद दृश्यते वयॊम खद्यॊतॊ हव्यवाड इव न चैवास्ति तलं वयॊम्नि न खद्यॊते हुताशनः 63 तस्मात परत्यक्षदृष्टॊ ऽपि युक्तम अर्थः परीक्षितुम परीक्ष्य जञापयन हय अर्थान न पश्चात परितप्यते 64 न दुष्करम इदं पुत्र यत परभुर घातयेत परम शलाघनीया च वर्या च लॊके परभवतां कषमा 65 सथापितॊ ऽयं पुत्र तवया सामन्तेष्व अधि विश्रुतः दुःखेनासाद्यते पात्रं धार्यताम एष ते सुहृत 66 दूषितं परदॊषैर हि गृह्णीते यॊ ऽनयथा शुचिम सवयं संदूषितामात्यः कषिप्रम एव विनश्यति 67 तस्माद अथारि संघाताद गॊमायॊः कश चिद आगतः धर्मात्मा तेन चाख्यातं यथैतत कपटं कृतम 68 ततॊ विज्ञात चारित्रः सत्कृत्य स विमॊक्षितः परिष्वक्तश च स सनेहं मृगेन्द्रेण पुनः पुनः 69 अनुज्ञाप्य मृगेन्द्रं तु गॊमायुर नीतिशास्त्रवित तेनामर्षेण संतप्तः परायम आसितुम ऐच्छत 70 शार्दूलस तत्र गॊमायुं सनेहात परस्रुत लॊचनः अवारयत स धर्मिष्ठं पूजया परतिपूजयन 71 तं स गॊमायुर आलॊक्य सनेहाद आगतसंभ्रमम बभाषे परणतॊ वाक्यं बाष्पगद्गदया गिरा 72 पूजितॊ ऽहं तवया पूर्वं पश्चाच चैव विमानितः परेषाम आस्पदं नीतॊ वस्तुं नार्हाम्य अहं तवयि 73 सवसंतुष्टाश चयुताः सथानान मानात पत्यवरॊपिताः सवयं चॊपहृता भृत्या ये चाप्य उपहृताः परैः 74 परिक्षीणाश च लुब्धाश च करूराः काराभितापिताः हृतस्वा मानिनॊ ये च तयक्तॊपात्ता महेप्सवः 75 संतापिताश च ये के चिद वयसनौग परतीक्षिणः अन्तर्हिताः सॊपहिताः सर्वे ते परसाधनाः 76 अवमानेन युक्तस्य सथापितस्य च मे पुनः कथं यास्यसि विश्वासम अहम एष्यामि वा पुनः 77 समर्थ इति संगृह्य सथापयित्वा परीक्ष्य च कृतं च समयं भित्त्वा तवयाहम अवमानितः 78 परथमं यः समाख्यातः शीलवान इति संसदि न वाच्यं तस्य वैगुण्यं परतिज्ञां परिरक्षता 79 एवं चावमतस्येह विश्वासं किं परयास्यसि तवयि चैव हय अविश्वासे ममॊद्वेगॊ भविष्यति 80 शङ्कितस तवम अहं भीतः परे छिन्द्रानुदर्शिनः अस्निग्धाश चैव दुस्तॊषाः कर्म चैतद बहुच छलम 81 दुःखेन शलेष्यते भिन्नं शलिष्टं दुःखेन भिद्यते भिन्नश्लिष्टा तु या परीतिर न सा सनेहेन वर्तते 82 कश चिद एव हि भीतस तु दृश्यते न परात्मनॊः कार्यापेक्षा हि वर्तन्ते भावाः सनिग्धास तु दुर्लभाः 83 सुदुःखं पुरुषज्ञानं चित्तं हय एषां चलाचलम समर्थॊ वाप्य अशक्तॊ वा शतेष्व एकॊ ऽधिगम्यते 84 अकस्मात परक्रिया नॄणाम अकस्माच चापकर्षणम शुभाशुभे महत्त्वं च परकर्तुं बुद्धिलाघवात 85 एवं बहुविधं सान्त्वम उक्त्वा धर्मार्थहेतुमत परसादयित्वा राजानं गॊमायुर वनम अभ्यगात 86 अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान गॊमायुः परायम आसीनस तयक्त्व देहं दिवं ययौ |
1
[y] asaumyāḥ saumya rūpeṇa saumyāś cāsaumya darśinaḥ īdṛśān puruṣāṃs tāta kathaṃ vidyāmahe vayam 2 [bh] atrāpy udāharantīmam itihāsaṃ purātanam vyāghragomāyu saṃvādaṃ taṃ nibodha yudhiṣṭhira 3 purikāyāṃ puri purā śrīmatyāṃ pauriko nṛpaḥ parahiṃsā ruciḥ krūro babhūva puruṣādhamaḥ 4 sa tv āyuṣi parikṣīṇe jagāmānīpsitāṃ gatim gomāyutvaṃ ca saṃprāpto dūṣitaḥ pūrvakarmaṇā 5 saṃsmṛtya pūrvajātiṃ sa nivedaṃ paramaṃ gataḥ na bhakṣayati māṃsāni parair upahṛtāny api 6 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍha vrataḥ cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ 7 śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat janma bhūmyanurodhāc ca nānyad vāsam arocayat 8 tasya śaucam amṛṣyantaḥ sarve te saha jātayaḥ cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ 9 vasan pitṛvane raudre śaucaṃ lapsitum icchasi iyaṃ vipratipattis te yadā tvaṃ piśitāśanaḥ 10 tat samo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam bhuṅkṣva śaucaṃ parityajya yad dhi bhuktaṃ tad asti te 11 iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ 12 apramāṇaṃ prasūtir me śīlataḥ kriyate kulam prārthayiṣye tu tat karma yena vistīryate yaśaḥ 13 śmaśāne yadi vāso me samādhir me niśāmyatām ātmā phalati karmāṇi nāśramo dharmalakṣaṇam 14 āśramye yo dvijaṃ hanyād gāṃ vā dadyād anāśrame kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet 15 bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ anubandhe tu ye doṣās tān na paśyanti mohitāḥ 16 apratyaya kṛtāṃ garhyām arthāpanaya dūṣitām iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye 17 taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ kṛtvātma sadṛśāṃ pūjāṃ sācivye 'vardhayat svayam 18 saumya vijñāta rūpas tvaṃ gaccha yātrāṃ mayā saha vriyantām īpsitā bhogāḥ parihāryāś ca puṣkalāḥ 19 tīkṣṇā vayam iti khyātā bhavato jñāpayāmahe mṛdupūrvaṃ ghātinas te śreyaś cādhigamiṣyati 20 atha saṃpūjya tad vākyaṃ mṛgendrasya mahātmanaḥ gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃ cid ānataḥ 21 sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare yat sahāyān mṛgayase dharmārthakuśalāñ śucīn 22 na śakyam anamātyena mahattvam anuśāsitum duṣṭāmātyena vā vīra śarīraparipanthinā 23 sahāyān anuraktāṃs tu yatetānupasaṃhitān parasparam asaṃghuṣṭān vijigīṣūn alolupān 24 tān atītopadhān prājñān hite yuktān manasvinaḥ pūjayethā mahābhāgān yathācāryān yathā pitṝn 25 na tv evaṃ mama saṃtoṣād rocate 'nyan mṛgādhipa na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam 26 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare 27 saṃśrayaḥ ślāghanīyas tvam anyeṣām api bhāsvatām kṛtātmā sumahābhāgaḥ pāpakeṣv apy adāruṇaḥ 28 dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ kṛtī cāmogha kartāsi bhāvyaiś ca samalaṃkṛtaḥ 29 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā sevāyāś cāpi nābhijñaḥ svacchandena vanecaraḥ 30 rājopakrośa doṣāś ca sarve saṃśrayavāsinām vanacaryā ca niḥsaṅgā nirbhayā niravagrahā 31 nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi na tat tiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām 32 pānīyaṃ vā nirāyāsaṃ svādv annaṃ vā bhayottaram vicārya khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ 33 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ 34 yadi tv etan mayā kāryaṃ mṛgendro yadi manyate samayaṃ kṛtam icchāmi vartitavyaṃ yathā mayi 35 madīyā mānanīyās te śrotavyaṃ ca hitaṃ vacaḥ kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā 36 na mantrayeyam anyais te sacivaiḥ saha karhi cit nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi 37 eka ekena saṃgamya raho brūyāṃ hitaṃ tava na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite 38 mayā saṃmantrya paścāc ca na hiṃsyāḥ sacivās tvayā madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ 39 evam astv iti tenāsau mṛgendreṇābhipūjitaḥ prāptavān matisācivyaṃ gomāyur vyāghrayonitaḥ 40 taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ 41 mitra buddhyā ca gomāyuṃ sāntvayitvā praveśya ca doṣeṣu samatāṃ netum aicchann aśubha buddhayaḥ 42 anyathā hy ucitāḥ pūrvaṃ paradravyāpahāriṇaḥ aśaktāḥ kiṃ cid ādātuṃ dravyaṃ gomāyuyantritāḥ 43 vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate dhanena mahatā caiva buddhir asya vilobhyate 44 na cāpi sa mahāprājñas tasmād dhairyāc cacāla ha athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare 45 īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam apanīya svayaṃ tad dhi tair nyastaṃ tasya veśmani 46 yadarthaṃ cāpy apahṛtaṃ yena yac caiva mantritam tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam 47 samayo 'yaṃ kṛtas tena sācivyam upagacchatā nopaghātas tvayā grāhyo rājan maitrīm ihecchatā 48 bhojane copahartavye tan māṃsaṃ na sma dṛśyate mṛgarājena cājñaptaṃ mṛgyatāṃ cora ity uta 49 kṛtakaiś cāpi tan māṃsaṃ mṛgendrāyopavarṇitam sacivenopanītaṃ te viduṣā prājñamānina 50 saroṣas tv atha śārdūlaḥ śrutvā gomāyucāpalam babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat 51 chidraṃ tu tasya tad dṛṣṭvā procus te pūrvamantriṇaḥ sarveṣām eva so 'smākaṃ vṛtti bhaṅgeṣu vartate 52 idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate śrutaś ca svāminā pūrvaṃ yādṛśo naiva tādṛśaḥ 53 vān mātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ dharmac chadmā hy ayaṃ pāpo vṛthācāra parigrahaḥ kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñ śramam 54 māṃsāpanayanaṃ jñātvā vyāghras teṣāṃ tu tad vacaḥ ājñāpayām āsa tadā gomāyur vadhyatām iti 55 śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ mṛgarājaṃ hitair vākyaiḥ saṃbodhayitum āgamat 56 putra naitat tvayā grāhyaṃ kapaṭārambha saṃvṛtam karmasaṃgharṣajair doṣair duṣyaty aśucibhiḥ śuciḥ 57 nocchritaṃ sahate kaś cit prakriyā vairakārikā śucer api hi yuktasya doṣa eva nipātyate 58 lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ adhārmikāṇāṃ dharmiṣṭhā virūpāṇāṃ surūpakāḥ 59 bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ kuryur doṣam adoṣasya bṛhaspatimater api 60 śūnyāt tac ca gṛhān māṃsaṃ yad adyāpahṛtaṃ tava necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām 61 asatyāḥ satyasaṃkāśāḥ satyāś cāsatya darśinaḥ dṛśyante vidhinā bhāvās teṣu yuktaṃ parīkṣaṇam 62 talavad dṛśyate vyoma khadyoto havyavāḍ iva na caivāsti talaṃ vyomni na khadyote hutāśanaḥ 63 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum parīkṣya jñāpayan hy arthān na paścāt paritapyate 64 na duṣkaram idaṃ putra yat prabhur ghātayet param ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā 65 sthāpito 'yaṃ putra tvayā sāmanteṣv adhi viśrutaḥ duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt 66 dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati 67 tasmād athāri saṃghātād gomāyoḥ kaś cid āgataḥ dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam 68 tato vijñāta cāritraḥ satkṛtya sa vimokṣitaḥ pariṣvaktaś ca sa snehaṃ mṛgendreṇa punaḥ punaḥ 69 anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata 70 śārdūlas tatra gomāyuṃ snehāt prasruta locanaḥ avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan 71 taṃ sa gomāyur ālokya snehād āgatasaṃbhramam babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā 72 pūjito 'haṃ tvayā pūrvaṃ paścāc caiva vimānitaḥ pareṣām āspadaṃ nīto vastuṃ nārhāmy ahaṃ tvayi 73 svasaṃtuṣṭāś cyutāḥ sthānān mānāt patyavaropitāḥ svayaṃ copahṛtā bhṛtyā ye cāpy upahṛtāḥ paraiḥ 74 parikṣīṇāś ca lubdhāś ca krūrāḥ kārābhitāpitāḥ hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ 75 saṃtāpitāś ca ye ke cid vyasanauga pratīkṣiṇaḥ antarhitāḥ sopahitāḥ sarve te parasādhanāḥ 76 avamānena yuktasya sthāpitasya ca me punaḥ kathaṃ yāsyasi viśvāsam aham eṣyāmi vā punaḥ 77 samartha iti saṃgṛhya sthāpayitvā parīkṣya ca kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ 78 prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā 79 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi tvayi caiva hy aviśvāse mamodvego bhaviṣyati 80 śaṅkitas tvam ahaṃ bhītaḥ pare chindrānudarśinaḥ asnigdhāś caiva dustoṣāḥ karma caitad bahuc chalam 81 duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate bhinnaśliṣṭā tu yā prītir na sā snehena vartate 82 kaś cid eva hi bhītas tu dṛśyate na parātmanoḥ kāryāpekṣā hi vartante bhāvāḥ snigdhās tu durlabhāḥ 83 suduḥkhaṃ puruṣajñānaṃ cittaṃ hy eṣāṃ calācalam samartho vāpy aśakto vā śateṣv eko 'dhigamyate 84 akasmāt prakriyā nṝṇām akasmāc cāpakarṣaṇam śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt 85 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat prasādayitvā rājānaṃ gomāyur vanam abhyagāt 86 agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān gomāyuḥ prāyam āsīnas tyaktva dehaṃ divaṃ yayau |