1
[अर्जुन] अग्नीषॊमौ कथं पूर्वम एकयॊनी परवर्तितौ एष मे संशयॊ जातस तं छिन्धि मधुसूदन 2 [षरीभगवान] हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन आत्मतेजॊद्भवं पार्थ शृणुष्वैक मना मम 3 संप्रक्षालन काले ऽतिक्रान्ते चतुर्थे युगसहस्रान्ते अव्यक्ते सर्वभूतप्रलये सथावरजङ्गमे जयॊतिर धरणिवायुरहिते ऽनधे तमसि जलैकार्णवे लॊके तम इत्य एवाभिबूते ऽदवितीये परतिष्ठिते नैव रात्र्यां न दिवसे न सति नासति न वयक्ते नाव्यक्ते वयवस्थिते एतस्याम अवस्थायां नारायण गुणाश्रयाद अक्षयाद अजराद अनिन्द्रियाद अग्राह्याद असंभवात सत्याद अहिंस्राल ललामाद विविधप्रवृत्ति विशेषात अक्षयाद अजरामराद अमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात तमसः पुरुषः परादुर्भूतॊ हरिर अव्ययः 4 निदर्शनम अपि हय अत्र भवति नासीद अहॊ न रात्रिर आसीत न सद आसीन नासद आसीत तम एव पुरस्ताद अभवद विश्वरूपम सा विश्वस्य जननीत्य एवम अस्यार्थॊ ऽनुभास्यते 5 तस्येदानीं तमः संभवस्य पुरुषस्य पद्मयॊनेर बरह्मणः परादुर भावे स पुरुषः परजाः सिसृक्षमाणॊ नेत्राभ्याम अग्नीषॊमौ ससर्ज ततॊ भूतसर्गे परवृत्तेप्रजा करमवशाद बरह्मक्षत्रम उपातिष्ठत यः सॊमस तद बरह्म यद बरह्म ते बराह्मणाः यॊ ऽगनिस तत कषत्रं कषत्राद बरह्मबलवत्तरम कस्माद इति लॊकप्रत्यक्षगुणम एतत तद यथा बराह्मणेभ्यः परं भूतं नॊत्पन्न पूर्वम दीप्यमाने ऽगनौ जुहॊतीति कृत्वा बरवीमि भूतसर्गः कृतॊ बरह्मणा भूतानि च परस्थाप्य तरौलॊक्यं धार्यतेति 6 मन्त्रवादॊ ऽपी हि भवति तवम अग्ने यज्ञानां हॊता विश्वेषाम हितॊ देवेनभिर मानुषे जन इति निदर्शनं चात्र भवति विश्वेषाम अग्ने यज्ञानां हॊतेति हितॊ देवैर मानुषैर जगत इति अग्निर हि यज्ञानां हॊतृकर्ता स चाग्निर बरह्म 7 न हय ऋते मन्त्राद धवनम अस्ति न विना पुरुषं तपः संभवति हविर मन्त्राणां संपूजा विद्यते देवमनुष्याणाम अनेन तवं हॊतेति नियुक्तः ये च मानुषा हॊत्राधिकारास ते च बराह्मणस्यहि याजनं विधीयते न कषत्रवैश्ययॊर दविजात्यॊः तस्माद बराह्मणा हय अग्निभूता यज्ञान उद्वहन्ति यज्ञा देवांस तर्पयन्ति देवाः पृथिवीं भावयन्ति 8 शतपथे हि बराह्मणं भवति अग्नौ समिद्धे स जुहॊति यॊ विद्वान बराह्मण मुखे दानाहुतिं जुहॊति एवम अप्य अग्निभूता बराह्मणा विद्वांसॊ ऽगनिं भावयन्ति अग्निर विष्णुः सर्वभूतान्य अनुप्रविश्य पराणान धारयति अपि चात्र सनत्कुमार गीताः शलॊका भवन्ति 9 विश्वं बरह्मासृजत पूर्वं सर्वादिर निरवस्करम बरह्मघॊषैर दिवं तिष्ठन्त्य अमरा बरह्मयॊनयः 10 बराह्मणानां मतिर वाक्यं कर्म शरद्धा तपांसि च धारयन्ति महीं दयां च शैत्याद वार्य अमृतं यथा 11 नास्ति सत्यात परॊ धर्मॊ नास्ति मातृसमॊ गुरुः बराह्मणेभ्यः परं नास्ति परेत्य चेहच भूतये 12 नैषाम उक्षा वर्धते नॊत वाहा; न गर्गरॊ मथ्यते संप्रदाने अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे बराह्मणा वृत्तिहीनाः 13 वेद पुराणेतिहास परामान्यान नारायण मुखॊद्गताः सर्वात्मनः सर्वकर्तारः सर्वभावनाश च बराह्मणाः वाक समकालं हि तस्य देवस्य वरप्रदस्य बराह्मणाः परथमं परादुर्भूता बराह्मणेभ्यश च शेषा वर्णाः परादुर्भूताः इत्थं च सुरासुरविशिष्टा बराह्मणा यदा मया बरह्मभूतेन पुरा सवयम एवॊत्पादिताः सुरासुरमहर्षयॊ भूतविशेषाः सथापिता निगृहीताश च 14 अहल्या धर्षणनिमित्तं हि गौतमाद धरि शमश्रुताम इन्द्रः पराप्तः कौशिक निमित्तं चेन्द्रॊ मुष्क वियॊगं मेषवृषणत्वं चावाप अश्विनॊर गरहप्रतिषेधॊद्यत वज्रस्य पुरंदरस्य चयवनेन सतम्भितॊ बाहुः करतुवध पराप्तमन्युना च दक्षेण भूयस तपसा चात्मानं संयॊज्य नेत्राकृतिर अन्या ललते रुद्रस्यॊत्पादिता 15 तरिपुरवधार्थं दिक्षाम अभ्युपगतस्य रुद्रस्यॊशनसा शिरसॊ जतॊत्कृत्य परयुक्ताः ततः परादुर्भूता भुजगाः तैर अस्य भुजगैः पीड्यमानः कन्थॊ नीलताम उपनीतः पूर्वे च मन्वन्तरे सवायम्भुवे नारायण हस्तबन्धग्रहणान नीलकन्थत्वम एव वा 16 अमृतॊत्पादने पुरश्चरणताम उपगतस्याङ्गिरसॊ बृहस्पतेर उपस्पृशतॊ न परसादं गतवत्यः किलापः अथ बृहस्प्तिर अपां चुक्रॊध यस्मान ममॊपस्पृशतः कलुषी भूता न परसादम उपगतास तस्माद अद्य परभृति झषमकरमत्स्यकच्छप जन्तु संकीर्णाः कलुषी भवतेति तदाप्रभृत्य आपॊ यादॊभिः संकीर्णाः संवृत्ताः 17 विश्वरूपॊ वैत्वास्त्रः पुरॊहितॊ देवानाम आसीत सवस्रीयॊ ऽसुराणाम स परत्यक्षंदेवेभ्यॊ भागम अददत परॊक्षम असुरेभ्यः 18 अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूप मातरं सवसारम असुरा वरम अयाचन्त हे सवसर अयं ते पुत्रस तवास्त्रॊ विश्वरूपस तरिशिरा देवानां पुरॊहितः परत्यक्षं देवेभ्यॊ भागम अददत परॊक्षम अस्माकम ततॊ देवा वर्धन्ते वयं कषीयामः तद एनं तवं वारयितुम अर्हसि तथा यथास्मान भजेद इति 19 अथ विश्वरूपं नन्दनवनम उपगतं मातॊवाच पुत्र किं परपक्षवर्धनस तवं मातुलपक्षं नाशयति नार्हस्य एवं कर्तुम इति स विश्वरूपॊ मातुर वाक्यम अनतिक्रमणीयम इति मत्वा संपूज्य हिरण्यकशिपुम अगात 20 हैरण्यगर्भाच च वसिष्ठाद धिरण्यकशिपुः शापं पराप्तवान यस्मात तवयान्यॊ वृतॊ हॊता तस्माद असमाप्त यज्ञस तवम अपूर्वात सत्त्वजाताद वधं पराप्स्यसीति तच छापदानाद धिरण्यकशिपुः पराप्तवान वधम 21 विश्वरूपॊ मातृपक्षवर्धनॊ ऽतयर्थं तपस्य अभवत तस्य वरतभङ्गार्थम इन्द्रॊ बह्वीः शरीमत्यॊ ऽपसरसॊ नियुयॊज ताश च दृष्ट्वा मनः कषुभितं तस्याभवत तासु चाप्सरःसुनचिराद एव सक्तॊ ऽभवत सक्तं चैनं जञात्वाप्सरसॊचुर गच्छामहे वयं यथागतम इति 22 तास तवास्त्रॊवाच कव गमिष्यथ आस्यतां तावन मया सह शरेयॊ भविष्यतीति तास तम अब्रुवन वयं देव सत्रियॊ ऽपसरसेन्द्रं वरदं पुरा परभ्विष्णुं वृणीमह इति 23 अथ ता विश्वरूपॊ ऽबरवीद अद्यैव सेन्द्रा देवा न भविष्यन्तीति ततॊ मन्त्राञ जजाप तैर मन्त्रैः परावर्धत तरिशिराः एकेनास्येन सर्वलॊकेषु दविजैः करियावद्भिर यज्ञेषु सुहुतं सॊमं पपाव एकेनापैकेन सेन्द्रान देवान अथेन्द्रस तं विवर्धमानं सॊमपानाप्यायित सर्वगात्रं दृष्ट्वा चिन्ताम आपेदे 24 देवाश च ते सहेन्द्रेण बरह्माणम अभिजग्मुर ऊचुश च विश्वरूपेण सर्वयज्ञेषु सुहुतः सॊमः पीयते वयम अभागाः संवृत्ताः असुरपक्षॊ वर्धते वयं कषीयामः तद अर्हसि नॊ विधातुं शरेयॊ यद अनन्तरम इति 25 तान बरह्मॊवाचर्षिर भार्गवस तपस तप्यते दधीचः स याच्यतां वरं यथा कलेवरं जह्यात तस्यास्थिभिर वज्रं करियताम इति 26 देवास तत्रागच्छन यत्र दधीचॊ भगवान ऋषिस तपस तेपे सेन्द्रा देवास तम अभिगम्यॊचुर भगवंस तपसः कुशलम अविघ्नं चेति तान दधीचॊवाच सवागतं भवद्भ्यः किं करियताम यद वक्ष्यथ तत करिष्यामीति ते तम अब्रुवञ शरीरपरित्यागं लॊकहितार्थं भगवान कर्तुम अर्हतीति अथ दधीचस तथैवाविमनाः सुखदुःखसमॊ महायॊगिय आत्मानं समाधाय शरीरपरित्यागं चकार 27 तस्य परमात्मन्य अवसृते तान्य अस्थीनि धाता संगृह्य वज्रम अकरॊत तेन वज्रेणाभेद्येनाप्रधृष्येण बरह्मास्थि संभूतेन विष्णुप्रविष्टेनेन्द्रॊ विश्वरूपंजघान शिरसां चास्य छेदनम अकरॊत तस्मादनन्तरं विश्वरूप गात्रमथन संभवं तवस्त्रॊत्पादितम एवारिं वृत्रम इन्द्रॊ जघान 28 तस्यां दवैधी भूतायां बरह्म वध्यायां भयाद इन्द्रॊ देवराज्यं परित्यज्याप्सु संभवां शीतलां मानससरॊ गतां नलिनीं परपेदे तत्र चैश्वर्ययॊगाद अनु मात्रॊ भूत्वा बिस गरन्थिं परविवेश 29 अथ बरह्म वध्या भयप्रनस्ते तरैलॊक्यनाथे शचीपतौ जगद अनीश्वरं बभूव देवान रजस तमश चाविवेश मन्त्रा न परावर्तन्त महर्षीणां रक्षांसि परादुर्भवन बरह्म चॊत्सादनं जगाम अनिन्द्राश चाबला लॊकाः सुप्रधृष्या बभूवुः 30 अथ देवर्षयश चायुषः पुत्रं नहुषं नाम देवराजत्वे ऽभिषिषिचुः नहुषः पञ्चभिः शतैर जयॊतिषां ललाते जवलद्भिः सर्वतेजॊ हरैस तरिविष्टपं पालयां बभूव अथ लॊकाः परकृतिम आपेदिरे सवस्थाश च बभूवुः 31 अथॊवाच नहुषः सर्वं मां शक्रॊपभुक्तम उपस्थितम ऋते शचीम इति स एवम उक्त्वा शची समीपम अगमद उवाच चैनाम सुभगे ऽहम इन्द्रॊ देवानां भजस्व माम इति तं शची परत्युवाच परकृत्या तवं धर्मवत्सलः सॊमवंशॊद्भवश च नार्हति परपत्नी धर्षणं कर्तुम इति 32 ताम अथॊवाच नहुषः ऐन्द्रं पदम अध्यास्यते मया अहम इन्द्रस्य राज्यरत्नहरॊ नात्राधर्मः कश चित तवम इन्द्र भुक्तेति सा तम उवाच अस्ति मम किं चिद वरतम अपर्यवसितम तस्यावभृथे तवाम उपगमिष्यामि कैश चिद एवाहॊभिर इति स शच्यैवम अभिहितॊ नहुषॊ जगाम 33 अथ शची दुःखशॊकार्ता भर्तृदर्शनलालसा नहुष भयगृहीता बृहस्पतिम उपागच्छत स च ताम अभिगतां दृष्ट्वैव धयानं परविश्य भर्त्र कार्यतत्परां जञात्वा बृहस्पतिर उवाच अनेनैव वरतेन तसपा चान्विता देवीं वरदाम उपश्रुतिम आह्वय सा तवेन्द्रं दर्शयिष्यतीति 34 साथ महानियमम आस्थिता देवीं वरदाम उपश्रुतिं मन्त्रैर आह्वयत सॊपश्रुतिः शची समीपम अगात उवाच चैनाम इयम अस्मि तवयॊपहूतॊपस्थिता किं ते परियं करवाणीति तां मूर्ध्ना परनम्यॊवाच शची भगवत्य अर्हसि मे भर्तारं दर्शयितुं तवं सत्या मता चेति सैनां मानसं सरॊ ऽनयत तत्रेन्द्रं बिस गरन्थि गतम अदर्शयत 35 ताम इन्द्रः पत्नीं कृशां गलानां च दृष्ट्वा चिन्तयां बभूव अहॊ मम महद दुःखम इदम अद्यॊपगतम नस्तं हि माम इयम अन्विष्यॊपागमद दुःखार्तेति ताम इन्द्रॊवाच कथं वर्तयसीति सा तम उवाच नहुषॊ माम आह्वयति कालश चास्य मया कृत इति 36 ताम इन्द्रॊवाच गच्छ नहुषस तवया वाच्यॊ ऽपूर्वेण माम ऋषियुक्तेन यानेन तवम अधिरूढॊद्वहस्व इन्द्रस्य हि महान्ति वाहनानि मनसः परियाण्य अधिरूढानि मया तवम अन्येनॊपयातुम अर्हसीति सैवम उक्ता हृष्टा जगाम इन्द्रॊ ऽपि बिस गरन्थिम एवाविवेश भूयः 37 अथेन्द्राणीम अभ्यागतां दृष्ट्वॊवाच नहुषः पूर्णः स काल इति तं शच्य अब्रवीच छक्रेण यथॊक्तम स महर्षियुक्तं वाहनम अधिरूढः शची समीपम उपागच्छत 38 अथ मैत्रावरुणिः कुम्भयॊनिर अगस्त्यॊ महर्षीन विक्रियमाणांस तान नहुषेनापश्यत पद्भ्यां च तेनास्पृश्यत ततः स नहुषम अब्रवीद अकार्य परवृत्त पापपतस्व महीम सर्पॊ भव यावद भूमिर गिरयश च तिष्ठेयुस तावद इति स महर्षिवाक्यसमकालम एव तस्माद यानाद अवापतत 39 अथानिन्द्रं पुनस तरैलॊक्यम अभवत ततॊ देवर्षयश च भगवन्तं विष्णुं शरणम इन्द्रार्थे ऽभिगमुः ऊचुश चैनं भगवन्न इन्द्रं बरह्म वध्याभिभूतं तरातुम अर्हसीति ततः स वरदस तान अब्रवीद अश्वमेधं यज्ञं वैष्नवं शक्रॊ ऽभियजतु ततः सवं सथानं पराप्स्यतीति 40 ततॊ देवर्षयश चेन्द्रं नापश्यन यदा तदा शचीम ऊचुर गच्छ सुभगे इन्द्रम आनयस्वेति सा पुनस तत्सरः समभ्यगच्छत इन्द्रश च तस्मात सरसः समुत्थाय बृहस्पतिम अभिजगाम बृहस्पतिश चाश्वमेधं महाक्रतुं शक्रायाहरत ततः कृष्णसारङ्गं मेध्यम अश्वम उत्सृज्य वाहनं तम एव कृत्वेन्द्रं मरुत्पतिं बृहस्पतिः सवस्थानं परापयाम आस 41 ततः स देव राद देवैर ऋषिभिर सतूयमानस तरिविष्टपस्थॊ निष्कल्मषॊ बभूव बरह्म वध्यां चतुर्षु सथानेषु वनिताग्निवनस्पतिगॊषु वयभजत एवम इन्द्रॊ बरह्मतेजःप्रभावॊपबृंहितः शत्रुवधं कृत्वा सवस्थानं परापितः 42 आकाशगङ्गा गतश च पुरा भरद्वाजॊ महर्षिर उपास्पृशंस तरीन करमान करमता विष्णुनाभ्यासादितः स भरद्वाजेन ससलिलेन पानिनॊरसि तादितः सलक्षणॊरस्कः संवृत्तः 43 भृगुणा महर्षिणा शप्तॊ ऽगनिः सर्वभक्षत्वम उपनीतः 44 अदितिर वै देवानाम अन्नम अपचद एतद भुक्त्वासुरान हनिष्यन्तीति तत्र बुधॊ वरच चर्या समाप्ताव आगच्छत अदितिं चावॊचद भिक्षां नादात अथ भिक्षा परत्याख्यान रुषितेन बुधेन बरह्मभूतेन विवस्वतॊ दवितीये जन्मन्य अन्द संज्ञितस्यान्दं मारितम अदित्याः स मार्तन्दॊ विवस्वान अभवच छराद्ध देवः 45 दक्षस्य वै दुहितरः षष्टिर आसन ताभ्यः कश्यपाय तरयॊदश परादाद दश धर्माय दश मनवे साप्तविंशतिम इन्दवे तासु तुल्यासु नक्षत्राख्यां गतासु सॊमॊ रॊहिण्याम अभ्यधिकां परीतिम अकरॊत ततस ताः शेषाः पत्न्य अ ईर्ष्यावयः पितुः समीपं गत्वेमम अर्थं शशंसुः भगवन्न अस्मासु तुल्यप्रभावासु सॊमॊ रॊहिणीम अधिकं भजतीति सॊ ऽबरवीद यक्ष्मैनम आवेक्ष्यतीति 46 दक्ष शापात सॊमं राजानं यक्ष्माविवेश स यक्ष्मनाविष्टॊ दक्षम अगमत दक्षश चैनम अब्रवीन न समं वर्तसेति तत्रर्षयः सॊमम अब्रुवन कषीयसे यस्क्मना पश्चिमस्यां दिशि समुद्रे हिरण्यसरस तीर्थम तत्र गत्वात्मानम अभिषेचयस्वेति अथागच्छत सॊमस तत्र हिरण्यसरस तीर्थम गत्वा चात्मनः सनपनम अकरॊत सनात्वा चात्मानं पाप्मनॊ मॊक्षयाम आस तत्र चावभासितस तीर्थे यदा सॊमस तदा परभृति तीर्थं तत परभासम इति नाम्ना खयातं बभूव तच छापाद अद्यापि कषीयते सॊमॊ ऽमावास्यान्तर सथः पौर्णमासी मात्रेऽ धिष्ठितॊ मेघलेखा परतिच्छन्नं वपुर दर्शयति मेघसदृशं वर्णम अगमत तद अस्य शशलक्ष्म विमलम अभवत 47 सथूलशिरा महर्षिर मेरॊः परागुत्तरे दिग भागे तपस तेपे तस्य तपस तप्यमानस्य सर्वगन्धवहः शुचिर वायुर विवायमानः शरीरम अस्पृशत स तपसा तापित शरीरः कृशॊ वायुनॊपवीज्यमानॊ हृदयपरितॊषम अगमत तत्र तस्यानिल वयजनकृतपरितॊषस्य सद्यॊ वनस्पतयः पुष्प शॊभां न दर्शितवन्त इति सैताञ शशाप न सर्वकालं पुष्पवन्तॊ भविष्यथेति 48 नारायणॊ लॊकहितार्थं वदवा मुखॊ नाम महर्षिः पुराभवत तस्य मेरौ तपस तप्यतः समुद्राहूतॊ नागतः तेनामर्षितेनात्म गात्रॊष्मणा समुद्रः सतिमितजलः कृतः सवेदप्रस्यन्दन सदृशश चास्य लवन भावॊ जनितः उक्तश चापेयॊ भविष्यसि एतच च ते तॊयं वदवा मुखसंज्ञितेन पीयमानं मधुरं भविष्यति तद एतद अद्यापि वदवा मुखसंज्ञितेनानुवर्तिना तॊयं सामुद्रं पीयते 49 हिमवतॊ गिरेर दुहितरम उमां रुद्रश चकमे भृगुर अपि च महर्षिर हिमवन्तम आगम्याब्रवीत कन्याम उमां मे देहीति तम अब्रवीद धिमवान अभिलसितॊ वरॊ रुद्र इति तम अब्रवीद भृगुर यस्मात तवयाहं कन्या वरण कृतभावः परत्याख्यातस तस्मान न रत्नानां भवान भाजनं भविष्यतीति अद्य परभृत्य एतद अवस्थितम ऋषिवचनम 50 तद एवंविधं माहात्म्यं बराह्मणानाम कषत्रम अपि शाश्वतीम अव्ययां पृथिवीं पत्नीम अभिगम्य बुभुजे तद एतद बरह्माग्नीषॊमीयम तेन जगद धार्यते |
1
[arjuna] agnīṣomau kathaṃ pūrvam ekayonī pravartitau eṣa me saṃśayo jātas taṃ chindhi madhusūdana 2 [ṣrībhagavān] hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana ātmatejodbhavaṃ pārtha śṛṇuṣvaika manā mama 3 saṃprakṣālana kāle 'tikrānte caturthe yugasahasrānte avyakte sarvabhūtapralaye sthāvarajaṅgame jyotir dharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke tama ity evābhibūte 'dvitīye pratiṣṭhite naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite etasyām avasthāyāṃ nārāyaṇa guṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāl lalāmād vividhapravṛtti viśeṣāt akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ 4 nidarśanam api hy atra bhavati nāsīd aho na rātrir āsīt na sad āsīn nāsad āsīt tama eva purastād abhavad viśvarūpam sā viśvasya jananīty evam asyārtho 'nubhāsyate 5 tasyedānīṃ tamaḥ saṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādur bhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja tato bhūtasarge pravṛtteprajā kramavaśād brahmakṣatram upātiṣṭhat yaḥ somas tad brahma yad brahma te brāhmaṇāḥ yo 'gnis tat kṣatraṃ kṣatrād brahmabalavattaram kasmād iti lokapratyakṣaguṇam etat tad yathā brāhmaṇebhyaḥ paraṃ bhūtaṃ notpanna pūrvam dīpyamāne 'gnau juhotīti kṛtvā bravīmi bhūtasargaḥ kṛto brahmaṇā bhūtāni ca prasthāpya traulokyaṃ dhāryateti 6 mantravādo 'pī hi bhavati tvam agne yajñānāṃ hotā viśveṣām hito devenabhir mānuṣe jana iti nidarśanaṃ cātra bhavati viśveṣām agne yajñānāṃ hoteti hito devair mānuṣair jagata iti agnir hi yajñānāṃ hotṛkartā sa cāgnir brahma 7 na hy ṛte mantrād dhavanam asti na vinā puruṣaṃ tapaḥ saṃbhavati havir mantrāṇāṃ saṃpūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ ye ca mānuṣā hotrādhikārās te ca brāhmaṇasyahi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ tasmād brāhmaṇā hy agnibhūtā yajñān udvahanti yajñā devāṃs tarpayanti devāḥ pṛthivīṃ bhāvayanti 8 śatapathe hi brāhmaṇaṃ bhavati agnau samiddhe sa juhoti yo vidvān brāhmaṇa mukhe dānāhutiṃ juhoti evam apy agnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti agnir viṣṇuḥ sarvabhūtāny anupraviśya prāṇān dhārayati api cātra sanatkumāra gītāḥ ślokā bhavanti 9 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram brahmaghoṣair divaṃ tiṣṭhanty amarā brahmayonayaḥ 10 brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca dhārayanti mahīṃ dyāṃ ca śaityād vāry amṛtaṃ yathā 11 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ brāhmaṇebhyaḥ paraṃ nāsti pretya cehaca bhūtaye 12 naiṣām ukṣā vardhate nota vāhā; na gargaro mathyate saṃpradāne apadhvastā dasyubhūtā bhavanti; yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ 13 veda purāṇetihāsa prāmānyān nārāyaṇa mukhodgatāḥ sarvātmanaḥ sarvakartāraḥ sarvabhāvanāś ca brāhmaṇāḥ vāk samakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaś ca śeṣā varṇāḥ prādurbhūtāḥ itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāś ca 14 ahalyā dharṣaṇanimittaṃ hi gautamād dhari śmaśrutām indraḥ prāptaḥ kauśika nimittaṃ cendro muṣka viyogaṃ meṣavṛṣaṇatvaṃ cāvāpa aśvinor grahapratiṣedhodyata vajrasya puraṃdarasya cyavanena stambhito bāhuḥ kratuvadha prāptamanyunā ca dakṣeṇa bhūyas tapasā cātmānaṃ saṃyojya netrākṛtir anyā lalate rudrasyotpāditā 15 tripuravadhārthaṃ dikṣām abhyupagatasya rudrasyośanasā śiraso jatotkṛtya prayuktāḥ tataḥ prādurbhūtā bhujagāḥ tair asya bhujagaiḥ pīḍyamānaḥ kantho nīlatām upanītaḥ pūrve ca manvantare svāyambhuve nārāyaṇa hastabandhagrahaṇān nīlakanthatvam eva vā 16 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ atha bṛhasptir apāṃ cukrodha yasmān mamopaspṛśataḥ kaluṣī bhūtā na prasādam upagatās tasmād adya prabhṛti jhaṣamakaramatsyakacchapa jantu saṃkīrṇāḥ kaluṣī bhavateti tadāprabhṛty āpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ 17 viśvarūpo vaitvāstraḥ purohito devānām āsīt svasrīyo 'surāṇām sa pratyakṣaṃdevebhyo bhāgam adadat parokṣam asurebhyaḥ 18 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpa mātaraṃ svasāram asurā varam ayācanta he svasar ayaṃ te putras tvāstro viśvarūpas triśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam tato devā vardhante vayaṃ kṣīyāmaḥ tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti 19 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca putra kiṃ parapakṣavardhanas tvaṃ mātulapakṣaṃ nāśayati nārhasy evaṃ kartum iti sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā saṃpūjya hiraṇyakaśipum agāt 20 hairaṇyagarbhāc ca vasiṣṭhād dhiraṇyakaśipuḥ śāpaṃ prāptavān yasmāt tvayānyo vṛto hotā tasmād asamāpta yajñas tvam apūrvāt sattvajātād vadhaṃ prāpsyasīti tac chāpadānād dhiraṇyakaśipuḥ prāptavān vadham 21 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasy abhavat tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja tāś ca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsunacirād eva sakto 'bhavat saktaṃ cainaṃ jñātvāpsarasocur gacchāmahe vayaṃ yathāgatam iti 22 tās tvāstrovāca kva gamiṣyatha āsyatāṃ tāvan mayā saha śreyo bhaviṣyatīti tās tam abruvan vayaṃ deva striyo 'psarasendraṃ varadaṃ purā prabhviṣṇuṃ vṛṇīmaha iti 23 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti tato mantrāñ jajāpa tair mantraiḥ prāvardhata triśirāḥ ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāv ekenāpaikena sendrān devān athendras taṃ vivardhamānaṃ somapānāpyāyita sarvagātraṃ dṛṣṭvā cintām āpede 24 devāś ca te sahendreṇa brahmāṇam abhijagmur ūcuś ca viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate vayam abhāgāḥ saṃvṛttāḥ asurapakṣo vardhate vayaṃ kṣīyāmaḥ tad arhasi no vidhātuṃ śreyo yad anantaram iti 25 tān brahmovācarṣir bhārgavas tapas tapyate dadhīcaḥ sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt tasyāsthibhir vajraṃ kriyatām iti 26 devās tatrāgacchan yatra dadhīco bhagavān ṛṣis tapas tepe sendrā devās tam abhigamyocur bhagavaṃs tapasaḥ kuśalam avighnaṃ ceti tān dadhīcovāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām yad vakṣyatha tat kariṣyāmīti te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti atha dadhīcas tathaivāvimanāḥ sukhaduḥkhasamo mahāyogiy ātmānaṃ samādhāya śarīraparityāgaṃ cakāra 27 tasya paramātmany avasṛte tāny asthīni dhātā saṃgṛhya vajram akarot tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthi saṃbhūtena viṣṇupraviṣṭenendro viśvarūpaṃjaghāna śirasāṃ cāsya chedanam akarot tasmādanantaraṃ viśvarūpa gātramathana saṃbhavaṃ tvastrotpāditam evāriṃ vṛtram indro jaghāna 28 tasyāṃ dvaidhī bhūtāyāṃ brahma vadhyāyāṃ bhayād indro devarājyaṃ parityajyāpsu saṃbhavāṃ śītalāṃ mānasasaro gatāṃ nalinīṃ prapede tatra caiśvaryayogād anu mātro bhūtvā bisa granthiṃ praviveśa 29 atha brahma vadhyā bhayapranaste trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva devān rajas tamaś cāviveśa mantrā na prāvartanta maharṣīṇāṃ rakṣāṃsi prādurbhavan brahma cotsādanaṃ jagāma anindrāś cābalā lokāḥ supradhṛṣyā babhūvuḥ 30 atha devarṣayaś cāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāte jvaladbhiḥ sarvatejo harais triviṣṭapaṃ pālayāṃ babhūva atha lokāḥ prakṛtim āpedire svasthāś ca babhūvuḥ 31 athovāca nahuṣaḥ sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti sa evam uktvā śacī samīpam agamad uvāca cainām subhage 'ham indro devānāṃ bhajasva mām iti taṃ śacī pratyuvāca prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaś ca nārhati parapatnī dharṣaṇaṃ kartum iti 32 tām athovāca nahuṣaḥ aindraṃ padam adhyāsyate mayā aham indrasya rājyaratnaharo nātrādharmaḥ kaś cit tvam indra bhukteti sā tam uvāca asti mama kiṃ cid vratam aparyavasitam tasyāvabhṛthe tvām upagamiṣyāmi kaiś cid evāhobhir iti sa śacyaivam abhihito nahuṣo jagāma 33 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣa bhayagṛhītā bṛhaspatim upāgacchat sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartr kāryatatparāṃ jñātvā bṛhaspatir uvāca anenaiva vratena tasapā cānvitā devīṃ varadām upaśrutim āhvaya sā tavendraṃ darśayiṣyatīti 34 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat sopaśrutiḥ śacī samīpam agāt uvāca cainām iyam asmi tvayopahūtopasthitā kiṃ te priyaṃ karavāṇīti tāṃ mūrdhnā pranamyovāca śacī bhagavaty arhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti saināṃ mānasaṃ saro 'nayat tatrendraṃ bisa granthi gatam adarśayat 35 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva aho mama mahad duḥkham idam adyopagatam nastaṃ hi mām iyam anviṣyopāgamad duḥkhārteti tām indrovāca kathaṃ vartayasīti sā tam uvāca nahuṣo mām āhvayati kālaś cāsya mayā kṛta iti 36 tām indrovāca gaccha nahuṣas tvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍhodvahasva indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā tvam anyenopayātum arhasīti saivam uktā hṛṣṭā jagāma indro 'pi bisa granthim evāviveśa bhūyaḥ 37 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti taṃ śacy abravīc chakreṇa yathoktam sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacī samīpam upāgacchat 38 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃs tān nahuṣenāpaśyat padbhyāṃ ca tenāspṛśyata tataḥ sa nahuṣam abravīd akārya pravṛtta pāpapatasva mahīm sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti sa maharṣivākyasamakālam eva tasmād yānād avāpatat 39 athānindraṃ punas trailokyam abhavat tato devarṣayaś ca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhigamuḥ ūcuś cainaṃ bhagavann indraṃ brahma vadhyābhibhūtaṃ trātum arhasīti tataḥ sa varadas tān abravīd aśvamedhaṃ yajñaṃ vaiṣnavaṃ śakro 'bhiyajatu tataḥ svaṃ sthānaṃ prāpsyatīti 40 tato devarṣayaś cendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti sā punas tatsaraḥ samabhyagacchat indraś ca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma bṛhaspatiś cāśvamedhaṃ mahākratuṃ śakrāyāharat tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvendraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayām āsa 41 tataḥ sa deva rād devair ṛṣibhir stūyamānas triviṣṭapastho niṣkalmaṣo babhūva brahma vadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ 42 ākāśagaṅgā gataś ca purā bharadvājo maharṣir upāspṛśaṃs trīn kramān kramatā viṣṇunābhyāsāditaḥ sa bharadvājena sasalilena pāninorasi tāditaḥ salakṣaṇoraskaḥ saṃvṛttaḥ 43 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ 44 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti tatra budho vrac caryā samāptāv āgacchat aditiṃ cāvocad bhikṣāṃ nādāt atha bhikṣā pratyākhyāna ruṣitena budhena brahmabhūtena vivasvato dvitīye janmany anda saṃjñitasyāndaṃ māritam adityāḥ sa mārtando vivasvān abhavac chrāddha devaḥ 45 dakṣasya vai duhitaraḥ ṣaṣṭir āsan tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave sāptaviṃśatim indave tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot tatas tāḥ śeṣāḥ patny a īrṣyāvayaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti so 'bravīd yakṣmainam āvekṣyatīti 46 dakṣa śāpāt somaṃ rājānaṃ yakṣmāviveśa sa yakṣmanāviṣṭo dakṣam agamat dakṣaś cainam abravīn na samaṃ vartaseti tatrarṣayaḥ somam abruvan kṣīyase yaskmanā paścimasyāṃ diśi samudre hiraṇyasaras tīrtham tatra gatvātmānam abhiṣecayasveti athāgacchat somas tatra hiraṇyasaras tīrtham gatvā cātmanaḥ snapanam akarot snātvā cātmānaṃ pāpmano mokṣayām āsa tatra cāvabhāsitas tīrthe yadā somas tadā prabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva tac chāpād adyāpi kṣīyate somo 'māvāsyāntara sthaḥ paurṇamāsī mātre' dhiṣṭhito meghalekhā praticchannaṃ vapur darśayati meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat 47 sthūlaśirā maharṣir meroḥ prāguttare dig bhāge tapas tepe tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat sa tapasā tāpita śarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat tatra tasyānila vyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpa śobhāṃ na darśitavanta iti saitāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti 48 nārāyaṇo lokahitārthaṃ vadavā mukho nāma maharṣiḥ purābhavat tasya merau tapas tapyataḥ samudrāhūto nāgataḥ tenāmarṣitenātma gātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ svedaprasyandana sadṛśaś cāsya lavana bhāvo janitaḥ uktaś cāpeyo bhaviṣyasi etac ca te toyaṃ vadavā mukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati tad etad adyāpi vadavā mukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate 49 himavato girer duhitaram umāṃ rudraś cakame bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti tam abravīd dhimavān abhilasito varo rudra iti tam abravīd bhṛgur yasmāt tvayāhaṃ kanyā varaṇa kṛtabhāvaḥ pratyākhyātas tasmān na ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti adya prabhṛty etad avasthitam ṛṣivacanam 50 tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje tad etad brahmāgnīṣomīyam tena jagad dhāryate |