1
[पुलस्त्य] ततॊ गच्छेत राजेन्द्र कुरुक्षेत्रम अभिष्टुतम पापेभ्यॊ विप्रमुच्यन्ते तद्गताः सर्वजन्तवः 2 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम य एवं सततं बरूयात सॊ ऽपि पापैः परमुच्यते 3 अत्र मासं वसेद वीर सरस्वत्यां युधिष्ठिर यत्र बरह्मादयॊ देव ऋषयः सिद्धचारणाः 4 गन्धर्वाप्सरसॊ यक्षाः पन्नगाश च महीपते बरह्म कषेत्रं महापुण्यम अभिगच्छन्ति भारत 5 मनसाप्य अभिकामस्य कुरुक्षेत्रं युधिष्ठिर पापाणि विप्रणश्यन्ति बरह्मलॊकं च गच्छति 6 गत्वा हि शरद्धया युक्तः कुरुक्षेत्रं कुरूद्वह राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः 7 ततॊ मचक्रुकं राजन दवारपालं महाबलम यक्षं समभिवाद्यैव गॊसहस्रफलं लभेत 8 ततॊ गच्छेत धर्मज्ञ विष्णॊर सथानम अनुत्तमम सततं नाम राजेन्द्र यत्र संनिहितॊ हरिः 9 तत्र सनात्वार्चयित्वा च तरिलॊकप्रभवं हरिम अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति 10 ततः पारिप्लवं गच्छेत तीर्थं तरैलॊक्यविश्रुतम अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः 11 पृथिव्यास तीर्थम आसाद्य गॊसहस्रफलं लभेत ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप दशाश्वमेधिके सनात्वा तद एव लभते फलम 12 सर्पदर्वीं समासाद्य नागानां तीर्थम उत्तमम अग्निष्टॊमम अवाप्नॊति नागलॊकं च विन्दति 13 ततॊ गच्छेत धर्मज्ञ दवारपालं तरन्तुकम तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत 14 ततः पञ्चनदं गत्वा नियतॊ नियताशनः कॊटिकीर्थम उपस्पृश्य हयमेध फलं लभेत अश्विनॊस तीर्थम आसाद्य रूपवान अभिजायते 15 ततॊ गच्छेत धर्मज्ञ वाराहं तीर्थम उत्तमम विष्णुर वाराह रूपेण पूर्वं यत्र सथितॊ ऽभवत तत्र सनात्वा नरव्याघ्र अग्निष्टॊम फलं लभेत 16 ततॊ जयन्त्या राजेन्द्र सॊमतीर्थं समाविशेत सनात्वा फलम अवाप्नॊति राजसूयस्य मानवः 17 एकहंसे नरः सनात्वा गॊसहस्रफलं लभेत कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह पुण्डरीकम अवाप्नॊति कृतशौचॊ भवेन नरः 18 ततॊ मुञ्ज वटं नाम महादेवस्य धीमतः तत्रॊष्य रजनीम एकां गाणपत्यम अवाप्नुयात 19 तत्रैव च महाराज यक्षी लॊकपरिश्रुता तां चाभिगम्य राजेन्द्र पुण्याँल लॊकान अवाप्नुयात 20 कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ परदक्षिणम उपावृत्य तीर्थसेवी समाहितः 21 संमिते पुष्कराणां च सनात्वार्च्य पितृदेवताः जामदग्न्येन रामेण आहृते वै महात्मना कृतकृत्यॊ भवेद राजन्न अश्वमेधं च विन्दति 22 ततॊ रामह्रदान गच्छेत तीर्थसेवी नराधिप यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा कषत्रम उत्साद्य वीर्येण हरदाः पञ्च निवेशिताः 23 पूरयित्वा नरव्याघ्र रुधिरेणेति नः शरुतम पितरस तर्पिताः सर्वे तथैव च पिता महाः ततस ते पितरः परीता रामम ऊचुर महीपते 24 रम राम महाभाग परीताः सम तव भार्गव अनया पितृभक्त्या च विक्रमेण च ते विभॊ वरं वृणीष्व भद्रं ते किम इच्छसि महाद्युते 25 एवम उक्तः स राजेन्द्र रामः परहरतां वरः अब्रवीत पराञ्जलिर वाक्यं पितॄन स गगने सथितान 26 भवन्तॊ यदि मे परीता यद्य अनुग्राह्यता मयि पितृप्रसादाद इच्छेयं तपसाप्यायनं पुनः 27 यच च रॊषाभिभूतेन कषत्रम उत्सादितं मया ततश च पापान मुच्येयं युष्माकं तेजसा हय अहम हरदाश च तीर्थभूता मे भवेयुर भुवि विश्रुताः 28 एतच छरुत्वा शुभं वाक्यं रामस्य पितरस तदा परत्यूचुः परमप्रीता रामं हर्षसमन्विताः 29 तपस ते वर्धतां भूयः पितृभक्त्या विशेषतः यच च रॊषाभिभूतेन कषत्रम उत्सादितं तवया 30 ततश च पापान मुक्तस तवं कर्मभिस ते च पातिताः हरदाश च तव तीर्थत्वं गमिष्यन्ति न संशयः 31 हरदेष्व एतेषु यः सनात्वा पितॄन संतर्पयिष्यति पितरस तस्य वै परीता दास्यन्ति भुवि दुर्लभम ईप्सितं मनसः कामं सवर्गलॊकं च शाश्वतम 32 एवं दत्त्वा वरान राजन रामस्य पितरस तदा आमन्त्र्य भार्गवं परीतास तत्रैवान्तर दधुस तदा 33 एवं रामह्रदाः पुण्या भार्गवस्य महात्मनाः सनात्वा हरदेषु रामस्य बरह्म चारी शुभव्रतः रामम अभ्यर्च्य राजेन्द्र लभेद बहुसुवर्णकम 34 वंशमूलकम आसाद्य तीर्थसेवी कुरूद्वह सववंशम उद्धरेद राजन सनात्वा वै वंशमूलके 35 कायशॊधनम आसाद्य तीर्थं भरतसत्तम शरीरशुद्धिः सनातस्य तस्मिंस तीर्थे न संशयः शुद्धदेहश च संयाति शुभाँल लॊकान अनुत्तमान 36 ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम लॊका यत्रॊद्धृताः पूर्वं विष्णुना परभ विष्णुना 37 लॊकॊद्धारं समासाद्य तीर्थं तरैलॊक्यविश्रुतम सनात्वा तीर्थवरे राजँल लॊकान उद्धरते सवकान शरीतीर्थं च समासाद्य विन्दते शरियम उत्तमाम 38 कपिला तीर्थम आसाद्य बरह्म चारी समाहितः तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा कपिलानां सहस्रस्य फलं विन्दति मानवः 39 सूर्यतीर्थं समासाद्य सनात्वा नियतमानसः अर्चयित्वा पितॄन देवान उपवासपरायणः अग्निष्टॊमम अवाप्नॊति सूर्यलॊकं च गच्छति 40 गमां भवनम आसाद्य तीर्थसेवी यथाक्रमम तत्राभिषेकं कुर्वाणॊ गॊसहस्रफलं लभेत 41 शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह देव्यास तीर्थे नरः सनात्वा लभते रूपम उत्तमम 42 ततॊ गच्छेत राजेन्द्र दवारपालम अरन्तुकम तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनाः तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत 43 ततॊ गच्छेत धर्मज्ञ बरह्मावर्तं नराधिप बरह्मावर्ते नरः सनात्वा बरह्मलॊकम अवाप्नुयात 44 ततॊ गच्छेत धर्मज्ञ सुतीर्थकम अनुत्तमम यत्र संनिहिता नित्यं पितरॊ दैवतैः सह 45 तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः अश्वमेधम अवाप्नॊति पितृलॊकं च गच्छति 46 ततॊ ऽमबुवश्यं धर्मज्ञ समासाद्य यथाक्रमम कॊशेश्वरस्य तीर्थेषु सनात्वा भरतसत्तम सर्वव्याधिविनिर्मुक्तॊ बरह्मलॊके महीयते 47 मातृतीर्थं च तत्रैव यत्र सनातस्य भारत परजा विवर्धते राजन्न अनन्तां चाश्नुते शरियम 48 ततः शीतवनं गच्छेन नियतॊ नियताशनः तीर्थं तत्र महाराज महद अन्यत्र दुर्लभम 49 पुनाति दर्शनाद एव दण्डेनैकं नराधिप केशान अभ्युक्ष्य वै तस्मिन पूतॊ भवति भारत 50 तीर्थं तत्र महाराज शवानलॊमापहं समृतम यतविप्रा नरव्याघ्र विद्वांसस तीर्थतत्पराः 51 शवानलॊमापनयने तीर्थे भरतसत्तम पराणायामैर निर्हरन्ति शवलॊमानि दविजॊत्तमाः 52 पूतात्मानश च राजेन्द्र परयान्ति परमां गतिम दशाश्वमेधिकं चैव तस्मिंस तीर्थे महीपते तत्र सनात्वा नरव्याघ्र गच्छेत परमां गतिम 53 ततॊ गच्छेत राजेन्द्र मानुषं लॊकविश्रुतम यत्र कृष्णमृगा राजन वयाधेन परिपीडिताः अवगाह्य तस्मिन सरसि मानुषत्वम उपागताः 54 तस्मिंस तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः सर्वपापविशुद्धात्मा सवर्गलॊके महीयते 55 मानुषस्य तु पूर्वेण करॊशमात्रे महीपते आपगा नाम विख्याता नदी सिद्धनिषेविता 56 शयामाक भॊजनं तत्र यः परयच्छति मानवः देवान पितॄंश च उद्दिश्य तस्य धर्मफलं महत एकस्मिन भॊजिते विप्रे कॊटिर भवति भॊजिता 57 तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा उषित्वा रजनीम एकाम अग्निष्टॊम फलं लभेत 58 ततॊ गच्छेत राजेन्द्र बरह्मणः सथानम उत्तमम बरह्मॊदुम्बरम इत्य एव परकाशं भुवि भारत 59 तत्र सप्तर्षिकुण्डेषु सनातस्य कुरुपुंगव केदारे चैव राजेन्द्र कपिष्ठल महात्मनाः 60 बरह्माणम अभिगम्याथ शुचिः परयत मानसः सर्वपापविशुद्धात्मा बरह्मलॊकं परपद्यते 61 कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम अन्तर्धानम अवाप्नॊति तपसा दग्धकिल्बिषः 62 ततॊ गच्छेत राजेन्द्र सरकं लॊकविश्रुतम कृष्णपक्षे चतुर्दश्याम अभिगम्य वृषध्वजम लभते सर्वकामान हि सवर्गलॊकं च गच्छति 63 तिस्रः कॊट्यस तु तीर्थानां सरके कुरुनन्दन रुद्र कॊटिस तथा कूपे हरदेषु च महीपते इलास्पदं च तत्रैव तीर्थं भरतसत्तम 64 तत्र सनात्वार्चयित्वा च पितॄन देवांश च भारत न दुर्गतिम अवाप्नॊति वाजपेयं च विन्दति 65 किंदाने च नरः सनात्वा किंजप्ये च महीपते अप्रमेयम अवाप्नॊति दानं जप्यं च भारत 66 कलश्यां चाप्य उपस्पृश्य शरद्दधानॊ जितेन्द्रियः अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः 67 सरकस्य तु पूर्वेण नारदस्य महात्मनाः तीर्थं कुरु वरश्रेष्ठ अनाजन्मेति विश्रुतम 68 तत्र तीर्थे नरः सनात्वा पराणांश चॊत्सृज्य भारत नारदेनाभ्यनुज्ञातॊ लॊकान पराप्नॊति दुर्लभान 69 शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत तत्र सनात्वा नरॊ राजन पुण्डरीकफलं लभेत 70 ततस तरिविष्टपं गच्छेत तरिषु लॊकेषु विश्रुतम तत्र वैतरणी पुण्या नदी पापप्रमॊचनी 71 तत्र सनात्वार्चयित्वा च शूलपाणिं वृषध्वजम सर्वपापविशुद्धात्मा गच्छेत परमां गतिम 72 ततॊ गच्छेत राजेन्द्र फलकी वनम उत्तमम यत्र देवाः सदा राजन फलकी वनम आश्रिताः तपश चरन्ति विपुलं बहुवर्षसहस्रकम 73 दृषद्वत्यां नरः सनात्वा तर्पयित्वा च देवताः अग्निष्टॊमातिरात्राभ्यां फलं विन्दति भारत 74 तीर्थे च सर्वदेवानां सनात्वा भरतसत्तम गॊसहस्रस्य राजेन्द्र फलं पराप्नॊति मानवः 75 पाणिखाते नरः सनात्वा तर्पयित्वा च देवताः राजसूयम अवाप्नॊति ऋषिलॊकं च गच्छति 76 ततॊ गच्छेत राजेन्द्र मिश्रकं तीर्थम उत्तमम तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना 77 वयासेन नृपशार्दूल दविजार्थम इति नः शरुतम सर्वतीर्थेषु स सनाति मिश्रके सनाति यॊ नरः 78 ततॊ वयास वनं गच्छेन नियतॊ नियताशनः मनॊजवे नरः सनात्वा गॊसहस्रफलं लभेत 79 गत्वा मधु वटीं चापि देव्यास तीर्थं नरः शुचिः तत्र सनात्वार्चयेद देवान पितॄंश च परयतः शुचिः स देव्या समनुज्ञातॊ गॊसहस्रफलं लभेत 80 कौशिक्याः संगमे यस तु दृषद्वत्याश च भारत सनाति वै नियताहारः सर्वपापैः परमुच्यते 81 ततॊ वयास सथली नाम यत्र वयासेन धीमता पुत्रशॊकाभितप्तेन देहत्यागार्थ निश्चयः 82 कृतॊ देवैश च राजेन्द्र पुनर उत्थापितस तदा अभिगम्य सथलीं तस्य गॊसहस्रफलं लभेत 83 किं दत्तं कूपम आसाद्य तिलप्रस्थं परदाय च गच्छेत परमां सिद्धिम ऋणैर मुक्तः कुरूद्वह 84 अहश च सुदिनं चैव दवे तीर्थे च सुदुर्लभे तयॊः सनात्वा नरव्याघ्र सूर्यलॊकम अवाप्नुयात 85 मृगधूमं ततॊ गच्छेत तरिषु लॊकेषु विश्रुतम तत्र गङ्गा हरदे सनात्वा समभ्यर्च्य च मानवः शूलपाणिं महादेवम अश्वमेध फलं लभेत 86 देव तीर्थे नरः सनात्वा गॊसहस्रफलं लभेत अथ वामनकं गच्छेत तरिषु लॊकेषु विश्रुतम 87 तत्र विष्णुपदे सनात्वा अर्चयित्वा च वामनम सर्वपापविशुद्धात्मा विष्णुलॊकम अवाप्नुयात 88 कुलम्पुने नरः सनात्वा पुनाति सवकुलं नरः पवनस्य हरदं गत्वा मरुतां तीर्थम उत्तमम तत्र सनात्वा नरव्याघ्र वायुलॊके महीयते 89 अमराणां हरदे सनात्वा अमरेषु नराधिप अमराणां परभावेन सवर्गलॊके महीयते 90 शालिहॊत्रस्य राजेन्द्र शालिशूर्पे यथाविधि सनात्वा नरवरश्रेष्ठ गॊसहस्रफलं लभेत 91 शरीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत 92 ततॊ नैमिष कुञ्जं च समासाद्य कुरूद्वह ऋषयः किल राजेन्द्र नैमिषेयास तपॊधनाः तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा 93 ततः कुञ्जः सरस्वत्यां कृतॊ भरतसत्तम ऋषीणाम अवकाशः सयाद यथा तुष्टिकरॊ महान 94 तस्मिन कुञ्जे नरः सनात्वा गॊसहस्रफलं लभेत कन्या तीर्थे नरः सनात्वा अग्निष्टॊम फलं लभेत 95 ततॊ गच्छेन नरव्याघ्र बरह्मणः सथानम उत्तमम तत्र वर्णावरः सनात्वा बराह्मण्यं लभते नरः बराह्मणश च विशुद्धात्मा गच्छेत परमां गतिम 96 ततॊ गच्छेन नरश्रेष्ठ सॊमतीर्थम अनुत्तमम तत्र सनात्वा नरॊ राजन सॊमलॊकम अवाप्नुयात 97 सप्त सारस्वतं तीर्थं ततॊ गच्छेन नराधिप यत्र मङ्कणकः सिद्धॊ महर्षिर लॊकविश्रुतः 98 पुरा मङ्कणकॊ राजन कुशाग्रेणेति नः शरुतम कषतः किल करे राजंस तस्य शाकरसॊ ऽसरवत 99 स वै शाकरसं दृष्ट्वा हर्षाविष्टॊ महातपाः परनृत्तः किल विप्रर्षिर विस्मयॊत्फुल्ललॊचनः 100 ततस तस्मिन परनृत्ते वै सथावरं जङ्गमं च यत परनृत्तम उभयं वीर तेजसा तस्य मॊहितम 101 बरह्मादिभिः सुरै राजन्न ऋषिभिश च तपॊधनैः विज्ञप्तॊ वै महादेव ऋषेर अर्थे नराधिप नायं नृत्येद यथा देव तथा तवं कर्तुम अर्हसि 102 ततः परनृत्तम आसाद्य हर्षाविष्टेन चेतसा सुराणां हितकामार्थम ऋषिं देवॊ ऽभयभाषत 103 अहॊ महर्षे धर्मज्ञ किमर्थं नृत्यते भवान हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव 104 [रसि] किं न पश्यसि मे देवकराच छाक रसं सरुतम यं दृष्ट्वाहं परनृत्तॊ वै हर्षेण महतान्वितः 105 [पुलस्त्य] तं परहस्याब्रवीद देवॊ मुनिं रागेण मॊहितम अहं वै विस्मयं विप्र न गच्छामीति पश्य माम 106 एवम उक्त्वा नरश्रेष्ठ महादेवेन धीमता अङ्गुल्यग्रेण राजेन्द्र सवाङ्गुष्ठस ताडितॊ ऽनघ 107 ततॊ भस्म कषताद राजन निर्गतं हिमसंनिभम तद दृष्ट्वा वरीडितॊ राजन स मुनिः पादयॊर गतः 108 नान्यं देवम अहं मन्ये रुद्रात परतरं महत सुरासुरस्य जगतॊ गतिस तवम असि शूलधृक 109 तवया सृष्टम इदं विश्वं तरैलॊक्यं स चराचरम तवाम एव भगवन सर्वे परविशन्ति युगक्षये 110 देवैर अपि न शक्यस तवं परिज्ञातुं कुतॊ मया तवयि सर्वे च दृश्यन्ते सुरा बरह्मादयॊ ऽनघ 111 सर्वस तवम असि लॊकानां कर्ता कारयिता च ह तवत्प्रसादात सुराः सर्वे मॊदन्तीहाकुतॊ भयाः एवं सतुत्वा महादेवं स ऋषिः परणतॊ ऽभवत 112 [रसि] तवत्प्रसादान महादेव तपॊ मे न कषरेत वै 113 [पुलस्त्य] ततॊ देवः परहृष्टात्मा बरह्मर्षिम इदम अब्रवीत तपस ते वर्धतां विप्र मत्प्रसादात सहस्रधा 114 आश्रमे चेह वत्स्यामि तवया सार्धं महामुने सप्त सारस्वते सनात्वा अर्चयिष्यन्ति ये तु माम 115 न तेषां दुर्लभं किं चिद इह लॊके परत्र च सारस्वतं च ते लॊकं गमिष्यन्ति न संशयः 116 ततस तव औशनसं गच्छेत तरिषु लॊकेषु विश्रुतम यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः 117 कार्तिकेयश च भगवांस तरिसंध्यं किल भारत सांनिध्यम अकरॊत तत्र भार्गव परियकाम्यया 118 कपालमॊचनं तीर्थं सर्वपापप्रमॊचनम तत्र सनात्वा नरव्याघ्र सर्वपापैः परमुच्यते 119 अग्नितीर्थं ततॊ गच्छेत तत्र सनात्वा नरर्षभ अग्निलॊकम अवाप्नॊति कुलं चैव समुद्धरेत 120 विश्वा मित्रस्य तत्रैव तीर्थं भरतसत्तम तत्र सनात्वा महाराज बराह्मण्यम अभिजायते 121 बरह्मयॊनिं समासाद्य शुचिः परयत मानसः तत्र सनात्वा नरव्याघ्र बरह्मलॊकं परपद्यते पुनात्य आ सप्तमं चैव कुलं नास्त्य अत्र संशयः 122 ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम पृथूदकम इति खयातं कार्तिकेयस्य वै नृप तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 123 अज्ञानाज जञानतॊ वापि सत्रिया वा पुरुषेण वा यत किं चिद अशुभं कर्मकृतं मानुषबुद्धिना 124 तत सर्वं नश्यते तस्य सनातमात्रस्य भारत अश्वमेध फलं चापि सवर्गलॊकं च गच्छति 125 पुण्यम आहुः कुरुक्षेत्रं कुरुक्षेत्रात सरस्वतीम सरस्वत्याश च तीर्थानि तीर्थेभ्यश च पृथूदकम 126 उत्तमे सर्वतीर्थानां यस तयजेद आत्मनस तनुम पृथूदके जप्यपरॊ नैनं शवॊ मरणं तपेत 127 गीतं सनत कुमारेण वयासेन च महात्मना वेदे च नियतं राजन अभिगच्छेत पृथूदकम 128 पृथूदकात पुण्यतमं नान्यत तीर्थं नरॊत्तम एतन मेध्यं पवित्रं च पावनं च न संशयः 129 तत्र सनात्वा दिवं यान्ति अपि पापकृतॊ जनाः पृथूदके नरश्रेष्ठ पराहुर एवं मनीषिणः 130 मधुस्रवं च तत्रैव तीर्थं भरतसत्तम तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत 131 ततॊ गच्छेन नरश्रेष्ठ तीर्थं देव्या यथाक्रमम सरस्वत्यारुणायाश च संगमं लॊकविश्रुतम 132 तरिरात्रॊपॊषितः सनात्वा मुच्यते बरह्महत्यया अग्निष्टॊमातिरात्राभ्यां फलं विन्दति मानवः 133 आ सप्तमं कुलं चैव पुनाति भरतर्षभ अवतीर्णं च तत्रैव तीर्थं कुरुकुलॊद्वह विप्राणाम अनुकम्पार्थं दर्भिणा निर्मितं पुरा 134 वरतॊपनयनाभ्यां वा उपवासेन वा दविजः करिया मन्त्रैश च संयुक्तॊ बराह्मणः सयान न संशयः 135 करिया मन्त्रविहीनॊ ऽपि तत्र सनात्वा नरर्षभ चीर्ण वरतॊ भवेद विप्रॊ दृष्टम एतत पुरातने 136 समुद्राश चापि चत्वारः समानीताश च दर्भिणा येषु सनातॊ नरव्याघ्र न दुर्गतिम अवाप्नुयात फलानि गॊसहस्राणां चतुर्णां विन्दते च सः 137 ततॊ गच्छेत राजेन्द्र तीर्थं शतसहस्रकम साहस्रकं च तत्रैव दवे तीर्थे लॊकविश्रुते 138 उभयॊर हि नरः सनात्वा गॊसहस्रफलं भवेत दानं वाप्य उपवासॊ वा सहस्रगुणितं भवेत 139 ततॊ गच्छेत राजेन्द्र रेणुका तीर्थम उत्तमम तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः सरव पापविशुद्धात्मा अग्निष्टॊम फलं लभेत 140 विमॊचनम उपस्पृश्य जितमन्युर जितेन्द्रियः परतिग्रह कृतैर दॊषैर सर्वैः स परिमुच्यते 141 ततः पञ्च वटं गत्वा बरह्म चारी जितेन्द्रियः पुण्येन महता युक्तः सतां लॊके महीयते 142 यत्र यॊगेश्वरः सथाणुः सवयम एव वृषध्वजः तम अर्चयित्वा देवेशं गमनाद एव सिध्यति 143 औजसं वरुणं तीर्थं दीप्यते सवेन तेजसा यत्र बरह्मादिभिर देवैर ऋषिभिश च तपॊधनैः सेनापत्येन देवानाम अभिषिक्तॊ गुहस तदा 144 औजसस्य तु पूर्वेण कुरु तीर्थं कुरूद्वह कुरु तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः सर्वपापविशुद्धात्मा कुरु लॊकं परपद्यते 145 सवर्गद्वारं ततॊ गच्छेन नियतॊ नियताशनः सवर्गलॊकम अवाप्नॊति बरह्मलॊकं च गच्छति 146 ततॊ गच्छेद अनरकं तीर्थसेवी नराधिप तत्र सनात्वा नरॊ राजन न दुर्गतिम इवाप्नुयात 147 तत्र बरह्मा सवयं नित्यं देवैः सह महीपते अन्वास्यते नरश्रेष्ठ नारायण पुरॊगमैः 148 सांनिध्यं चैव राजेन्द्र रुद्र पत्न्याः कुरूद्वह अभिगम्य च तां देवीं न दुर्गतिम अवाप्नुयात 149 तत्रैव च महाराज विश्वेश्वरम उमापतिम अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः 150 नारायणं चाभिगम्य पद्मनाभम अरिंदमम शॊभमानॊ महाराज विष्णुलॊकं परपद्यते 151 तीर्थे तु सर्वदेवानां सनातः स पुरुषर्षभ सर्वदुःखैः परित्यक्तॊ दयॊतते शशिवत सदा 152 ततः सवस्ति पुरं गच्छेत तीर्थसेवी नराधिप पावनं तीर्थम आसाद्य तर्पयेत पितृदेवताः अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः 153 गङ्गा हरदश च तत्रैव कूपश च भरतर्षभ तिस्रः कॊट्यस तु तीर्थानां तस्मिन कूपे महीपते तत्र सनात्वा नरॊ राजन सवर्गलॊकं परपद्यते 154 आपगायां नरः सनात्वा अर्चयित्वा महेश्वरम गाणपत्यम अवाप्नॊति कुलं चॊद्धरते सवकम 155 ततः सथाणुवटं गच्छेत तरिषु लॊकेषु विश्रुतम तत्र सनात्वा सथितॊ रात्रिं रुद्र लॊकम अवाप्नुयात 156 बदरी पाचनं गच्छेद वसिष्ठस्याश्रमं ततः बदरं भक्षयेत तत्र तरिरात्रॊपॊषितॊ नरः 157 सम्यग दवादश वर्षाणि बदरान भक्षयेत तु यः तरिरात्रॊपॊषितश चैव भवेत तुल्यॊ नराधिप 158 इन्द्र मार्गं समासाद्य तीर्थसेवी नराधिप अहॊरात्रॊपवासेन शक्र लॊके महीयते 159 एकरात्रं समासाद्य एकरात्रॊषितॊ नरः नियतः सत्यवादी च बरह्मलॊके महीयते 160 ततॊ गच्छेत धर्मज्ञ तीर्थं तरैलॊक्यविश्रुतम आदित्यस्याश्रमॊ यत्र तेजॊराशेर महात्मनाः 161 तस्मिंस तीर्थे नरः सनात्वा पूजयित्वा विभावसुम आदित्यलॊकं वरजति कुलं चैव समुद्धरेत 162 सॊमतीर्थे नरः सनात्वा तीर्थसेवी कुरूद्वह सॊमलॊकम अवाप्नॊति नरॊ नास्त्य अत्र संशयः 163 ततॊ गच्छेत धर्मज्ञ दधीचस्य महात्मनाः तीर्थं पुण्यतमं राजन पावनं लॊकविश्रुतम 164 यत्र सारस्वतॊ राजन सॊ ऽङगिरास तपसॊ निधिः तस्मिंस तीर्थे नरः सनात्वा वाजपेयफलं लभेत सारस्वतीं गतिं चैव लभते नात्र संशयः 165 ततः कन्याश्रमं गच्छेन नियतॊ बरह्मचर्यवान तरिरात्रॊपॊषितॊ राजन्न उपवासपरायणः लभेत कन्याशतं दिव्यं बरह्मलॊकं च गच्छति 166 यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः मासि मासि समायान्ति पुण्येन महतान्विताः 167 संनिहित्याम उपस्पृश्य राहुग्रस्ते दिवाकरे अश्वमेध शतं तेन इष्टं भवति शाश्वतम 168 पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च नद्यॊ नदास तडागाश च सर्वप्रस्रवणानि च 169 उदपानाश च वप्राश च पुण्यान्य आयतनानि च मासि मासि समायान्ति संनिहित्यां न संशयः 170 यत किं चिद दुष्कृतं कर्म सत्रिया वा पुरुषस्य वा सनातमात्रस्य तत सर्वं नश्यते नात्र संशयः पद्मवर्णेन यानेन बरह्मलॊकं स गच्छति 171 अभिवाद्य ततॊ यक्षं दवारपालम अरन्तुकम कॊटिरूपम उपस्पृश्य लभेद बहुसुवर्णकम 172 गङ्गा हरदश च तत्रैव तीर्थं भरतसत्तम तत्र सनातस तु धर्मज्ञ बरह्म चारी समाहितः राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम 173 पृथिव्यां नैमिषं पुण्यम अन्तरिक्षे च पुष्करम तरयाणाम अपि लॊकानां कुरुक्षेत्रं विशिष्यते 174 पांसवॊ ऽपि कुरुक्षेत्रे वायुना समुदीरिताः अपि दुष्कृतकर्माणं नयन्ति परमां गतिम 175 दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम ये वसन्ति कुरुक्षेत्रे ते वसन्ति तरिविष्टपे 176 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम अप्य एकां वाचम उत्सृज्य सर्वपापैः परमुच्यते 177 बरह्म वेदी कुरुक्षेत्रं पुण्यं बरह्मर्षिसेवितम तदावसन्ति ये राजन न ते शॊच्याः कथं चन 178 तरन्तुकारन्तुकयॊर यद अन्तरं; रामह्रदानां च मचक्रुकस्य एतत कुरुक्षेत्रसमन्तपञ्चकं; पिता महस्यॊत्तर वेदिर उच्यते |
1
[pulastya] tato gaccheta rājendra kurukṣetram abhiṣṭutam pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ 2 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate 3 atra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira yatra brahmādayo deva ṛṣayaḥ siddhacāraṇāḥ 4 gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate brahma kṣetraṃ mahāpuṇyam abhigacchanti bhārata 5 manasāpy abhikāmasya kurukṣetraṃ yudhiṣṭhira pāpāṇi vipraṇaśyanti brahmalokaṃ ca gacchati 6 gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ 7 tato macakrukaṃ rājan dvārapālaṃ mahābalam yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet 8 tato gaccheta dharmajña viṣṇor sthānam anuttamam satataṃ nāma rājendra yatra saṃnihito hariḥ 9 tatra snātvārcayitvā ca trilokaprabhavaṃ harim aśvamedham avāpnoti viṣṇulokaṃ ca gacchati 10 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ 11 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa daśāśvamedhike snātvā tad eva labhate phalam 12 sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam agniṣṭomam avāpnoti nāgalokaṃ ca vindati 13 tato gaccheta dharmajña dvārapālaṃ tarantukam tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet 14 tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ koṭikīrtham upaspṛśya hayamedha phalaṃ labhet aśvinos tīrtham āsādya rūpavān abhijāyate 15 tato gaccheta dharmajña vārāhaṃ tīrtham uttamam viṣṇur vārāha rūpeṇa pūrvaṃ yatra sthito 'bhavat tatra snātvā naravyāghra agniṣṭoma phalaṃ labhet 16 tato jayantyā rājendra somatīrthaṃ samāviśet snātvā phalam avāpnoti rājasūyasya mānavaḥ 17 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ 18 tato muñja vaṭaṃ nāma mahādevasya dhīmataḥ tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt 19 tatraiva ca mahārāja yakṣī lokapariśrutā tāṃ cābhigamya rājendra puṇyāṁl lokān avāpnuyāt 20 kurukṣetrasya taddvāraṃ viśrutaṃ bharatarṣabha pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ 21 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ jāmadagnyena rāmeṇa āhṛte vai mahātmanā kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati 22 tato rāmahradān gacchet tīrthasevī narādhipa yatra rāmeṇa rājendra tarasā dīptatejasā kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ 23 pūrayitvā naravyāghra rudhireṇeti naḥ śrutam pitaras tarpitāḥ sarve tathaiva ca pitā mahāḥ tatas te pitaraḥ prītā rāmam ūcur mahīpate 24 rama rāma mahābhāga prītāḥ sma tava bhārgava anayā pitṛbhaktyā ca vikrameṇa ca te vibho varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute 25 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān 26 bhavanto yadi me prītā yady anugrāhyatā mayi pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ 27 yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hy aham hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ 28 etac chrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ 29 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ yac ca roṣābhibhūtena kṣatram utsāditaṃ tvayā 30 tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ 31 hradeṣv eteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati pitaras tasya vai prītā dāsyanti bhuvi durlabham īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam 32 evaṃ dattvā varān rājan rāmasya pitaras tadā āmantrya bhārgavaṃ prītās tatraivāntar dadhus tadā 33 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanāḥ snātvā hradeṣu rāmasya brahma cārī śubhavrataḥ rāmam abhyarcya rājendra labhed bahusuvarṇakam 34 vaṃśamūlakam āsādya tīrthasevī kurūdvaha svavaṃśam uddhared rājan snātvā vai vaṃśamūlake 35 kāyaśodhanam āsādya tīrthaṃ bharatasattama śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ śuddhadehaś ca saṃyāti śubhāṁl lokān anuttamān 36 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabha viṣṇunā 37 lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam snātvā tīrthavare rājaṁl lokān uddharate svakān śrītīrthaṃ ca samāsādya vindate śriyam uttamām 38 kapilā tīrtham āsādya brahma cārī samāhitaḥ tatra snātvārcayitvā ca daivatāni pitṝṃs tathā kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ 39 sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ arcayitvā pitṝn devān upavāsaparāyaṇaḥ agniṣṭomam avāpnoti sūryalokaṃ ca gacchati 40 gamāṃ bhavanam āsādya tīrthasevī yathākramam tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet 41 śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha devyās tīrthe naraḥ snātvā labhate rūpam uttamam 42 tato gaccheta rājendra dvārapālam arantukam tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanāḥ tatra snātvā naro rājann agniṣṭoma phalaṃ labhet 43 tato gaccheta dharmajña brahmāvartaṃ narādhipa brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt 44 tato gaccheta dharmajña sutīrthakam anuttamam yatra saṃnihitā nityaṃ pitaro daivataiḥ saha 45 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ aśvamedham avāpnoti pitṛlokaṃ ca gacchati 46 tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam kośeśvarasya tīrtheṣu snātvā bharatasattama sarvavyādhivinirmukto brahmaloke mahīyate 47 mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata prajā vivardhate rājann anantāṃ cāśnute śriyam 48 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ tīrthaṃ tatra mahārāja mahad anyatra durlabham 49 punāti darśanād eva daṇḍenaikaṃ narādhipa keśān abhyukṣya vai tasmin pūto bhavati bhārata 50 tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam yataviprā naravyāghra vidvāṃsas tīrthatatparāḥ 51 śvānalomāpanayane tīrthe bharatasattama prāṇāyāmair nirharanti śvalomāni dvijottamāḥ 52 pūtātmānaś ca rājendra prayānti paramāṃ gatim daśāśvamedhikaṃ caiva tasmiṃs tīrthe mahīpate tatra snātvā naravyāghra gaccheta paramāṃ gatim 53 tato gaccheta rājendra mānuṣaṃ lokaviśrutam yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ avagāhya tasmin sarasi mānuṣatvam upāgatāḥ 54 tasmiṃs tīrthe naraḥ snātvā brahma cārī jitendriyaḥ sarvapāpaviśuddhātmā svargaloke mahīyate 55 mānuṣasya tu pūrveṇa krośamātre mahīpate āpagā nāma vikhyātā nadī siddhaniṣevitā 56 śyāmāka bhojanaṃ tatra yaḥ prayacchati mānavaḥ devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat ekasmin bhojite vipre koṭir bhavati bhojitā 57 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā uṣitvā rajanīm ekām agniṣṭoma phalaṃ labhet 58 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam brahmodumbaram ity eva prakāśaṃ bhuvi bhārata 59 tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava kedāre caiva rājendra kapiṣṭhala mahātmanāḥ 60 brahmāṇam abhigamyātha śuciḥ prayata mānasaḥ sarvapāpaviśuddhātmā brahmalokaṃ prapadyate 61 kapiṣṭhalasya kedāraṃ samāsādya sudurlabham antardhānam avāpnoti tapasā dagdhakilbiṣaḥ 62 tato gaccheta rājendra sarakaṃ lokaviśrutam kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam labhate sarvakāmān hi svargalokaṃ ca gacchati 63 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana rudra koṭis tathā kūpe hradeṣu ca mahīpate ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama 64 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata na durgatim avāpnoti vājapeyaṃ ca vindati 65 kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate aprameyam avāpnoti dānaṃ japyaṃ ca bhārata 66 kalaśyāṃ cāpy upaspṛśya śraddadhāno jitendriyaḥ agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ 67 sarakasya tu pūrveṇa nāradasya mahātmanāḥ tīrthaṃ kuru varaśreṣṭha anājanmeti viśrutam 68 tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata nāradenābhyanujñāto lokān prāpnoti durlabhān 69 śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet 70 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam tatra vaitaraṇī puṇyā nadī pāpapramocanī 71 tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam sarvapāpaviśuddhātmā gaccheta paramāṃ gatim 72 tato gaccheta rājendra phalakī vanam uttamam yatra devāḥ sadā rājan phalakī vanam āśritāḥ tapaś caranti vipulaṃ bahuvarṣasahasrakam 73 dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata 74 tīrthe ca sarvadevānāṃ snātvā bharatasattama gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ 75 pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ rājasūyam avāpnoti ṛṣilokaṃ ca gacchati 76 tato gaccheta rājendra miśrakaṃ tīrtham uttamam tatra tīrthāni rājendra miśritāni mahātmanā 77 vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ 78 tato vyāsa vanaṃ gacchen niyato niyatāśanaḥ manojave naraḥ snātvā gosahasraphalaṃ labhet 79 gatvā madhu vaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ sa devyā samanujñāto gosahasraphalaṃ labhet 80 kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate 81 tato vyāsa sthalī nāma yatra vyāsena dhīmatā putraśokābhitaptena dehatyāgārtha niścayaḥ 82 kṛto devaiś ca rājendra punar utthāpitas tadā abhigamya sthalīṃ tasya gosahasraphalaṃ labhet 83 kiṃ dattaṃ kūpam āsādya tilaprasthaṃ pradāya ca gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha 84 ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt 85 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam tatra gaṅgā hrade snātvā samabhyarcya ca mānavaḥ śūlapāṇiṃ mahādevam aśvamedha phalaṃ labhet 86 deva tīrthe naraḥ snātvā gosahasraphalaṃ labhet atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam 87 tatra viṣṇupade snātvā arcayitvā ca vāmanam sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt 88 kulampune naraḥ snātvā punāti svakulaṃ naraḥ pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam tatra snātvā naravyāghra vāyuloke mahīyate 89 amarāṇāṃ hrade snātvā amareṣu narādhipa amarāṇāṃ prabhāvena svargaloke mahīyate 90 śālihotrasya rājendra śāliśūrpe yathāvidhi snātvā naravaraśreṣṭha gosahasraphalaṃ labhet 91 śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama tatra snātvā naro rājann agniṣṭoma phalaṃ labhet 92 tato naimiṣa kuñjaṃ ca samāsādya kurūdvaha ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā 93 tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān 94 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet kanyā tīrthe naraḥ snātvā agniṣṭoma phalaṃ labhet 95 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim 96 tato gacchen naraśreṣṭha somatīrtham anuttamam tatra snātvā naro rājan somalokam avāpnuyāt 97 sapta sārasvataṃ tīrthaṃ tato gacchen narādhipa yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ 98 purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat 99 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ 100 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat pranṛttam ubhayaṃ vīra tejasā tasya mohitam 101 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ vijñapto vai mahādeva ṛṣer arthe narādhipa nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi 102 tataḥ pranṛttam āsādya harṣāviṣṭena cetasā surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata 103 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava 104 [rsi] kiṃ na paśyasi me devakarāc chāka rasaṃ srutam yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ 105 [pulastya] taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām 106 evam uktvā naraśreṣṭha mahādevena dhīmatā aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha 107 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ 108 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat surāsurasya jagato gatis tvam asi śūladhṛk 109 tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sa carācaram tvām eva bhagavan sarve praviśanti yugakṣaye 110 devair api na śakyas tvaṃ parijñātuṃ kuto mayā tvayi sarve ca dṛśyante surā brahmādayo 'nagha 111 sarvas tvam asi lokānāṃ kartā kārayitā ca ha tvatprasādāt surāḥ sarve modantīhākuto bhayāḥ evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat 112 [rsi] tvatprasādān mahādeva tapo me na kṣareta vai 113 [pulastya] tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt tapas te vardhatāṃ vipra matprasādāt sahasradhā 114 āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune sapta sārasvate snātvā arcayiṣyanti ye tu mām 115 na teṣāṃ durlabhaṃ kiṃ cid iha loke paratra ca sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ 116 tatas tv auśanasaṃ gacchet triṣu lokeṣu viśrutam yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ 117 kārtikeyaś ca bhagavāṃs trisaṃdhyaṃ kila bhārata sāṃnidhyam akarot tatra bhārgava priyakāmyayā 118 kapālamocanaṃ tīrthaṃ sarvapāpapramocanam tatra snātvā naravyāghra sarvapāpaiḥ pramucyate 119 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha agnilokam avāpnoti kulaṃ caiva samuddharet 120 viśvā mitrasya tatraiva tīrthaṃ bharatasattama tatra snātvā mahārāja brāhmaṇyam abhijāyate 121 brahmayoniṃ samāsādya śuciḥ prayata mānasaḥ tatra snātvā naravyāghra brahmalokaṃ prapadyate punāty ā saptamaṃ caiva kulaṃ nāsty atra saṃśayaḥ 122 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam pṛthūdakam iti khyātaṃ kārtikeyasya vai nṛpa tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ 123 ajñānāj jñānato vāpi striyā vā puruṣeṇa vā yat kiṃ cid aśubhaṃ karmakṛtaṃ mānuṣabuddhinā 124 tat sarvaṃ naśyate tasya snātamātrasya bhārata aśvamedha phalaṃ cāpi svargalokaṃ ca gacchati 125 puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm sarasvatyāś ca tīrthāni tīrthebhyaś ca pṛthūdakam 126 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum pṛthūdake japyaparo nainaṃ śvo maraṇaṃ tapet 127 gītaṃ sanat kumāreṇa vyāsena ca mahātmanā vede ca niyataṃ rājan abhigacchet pṛthūdakam 128 pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ 129 tatra snātvā divaṃ yānti api pāpakṛto janāḥ pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ 130 madhusravaṃ ca tatraiva tīrthaṃ bharatasattama tatra snātvā naro rājan gosahasraphalaṃ labhet 131 tato gacchen naraśreṣṭha tīrthaṃ devyā yathākramam sarasvatyāruṇāyāś ca saṃgamaṃ lokaviśrutam 132 trirātropoṣitaḥ snātvā mucyate brahmahatyayā agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ 133 ā saptamaṃ kulaṃ caiva punāti bharatarṣabha avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā 134 vratopanayanābhyāṃ vā upavāsena vā dvijaḥ kriyā mantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ 135 kriyā mantravihīno 'pi tatra snātvā nararṣabha cīrṇa vrato bhaved vipro dṛṣṭam etat purātane 136 samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā yeṣu snāto naravyāghra na durgatim avāpnuyāt phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ 137 tato gaccheta rājendra tīrthaṃ śatasahasrakam sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute 138 ubhayor hi naraḥ snātvā gosahasraphalaṃ bhavet dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet 139 tato gaccheta rājendra reṇukā tīrtham uttamam tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ srava pāpaviśuddhātmā agniṣṭoma phalaṃ labhet 140 vimocanam upaspṛśya jitamanyur jitendriyaḥ pratigraha kṛtair doṣair sarvaiḥ sa parimucyate 141 tataḥ pañca vaṭaṃ gatvā brahma cārī jitendriyaḥ puṇyena mahatā yuktaḥ satāṃ loke mahīyate 142 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ tam arcayitvā deveśaṃ gamanād eva sidhyati 143 aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ senāpatyena devānām abhiṣikto guhas tadā 144 aujasasya tu pūrveṇa kuru tīrthaṃ kurūdvaha kuru tīrthe naraḥ snātvā brahma cārī jitendriyaḥ sarvapāpaviśuddhātmā kuru lokaṃ prapadyate 145 svargadvāraṃ tato gacchen niyato niyatāśanaḥ svargalokam avāpnoti brahmalokaṃ ca gacchati 146 tato gacched anarakaṃ tīrthasevī narādhipa tatra snātvā naro rājan na durgatim ivāpnuyāt 147 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate anvāsyate naraśreṣṭha nārāyaṇa purogamaiḥ 148 sāṃnidhyaṃ caiva rājendra rudra patnyāḥ kurūdvaha abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt 149 tatraiva ca mahārāja viśveśvaram umāpatim abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ 150 nārāyaṇaṃ cābhigamya padmanābham ariṃdamam śobhamāno mahārāja viṣṇulokaṃ prapadyate 151 tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā 152 tataḥ svasti puraṃ gacchet tīrthasevī narādhipa pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ 153 gaṅgā hradaś ca tatraiva kūpaś ca bharatarṣabha tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate tatra snātvā naro rājan svargalokaṃ prapadyate 154 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram gāṇapatyam avāpnoti kulaṃ coddharate svakam 155 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam tatra snātvā sthito rātriṃ rudra lokam avāpnuyāt 156 badarī pācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ badaraṃ bhakṣayet tatra trirātropoṣito naraḥ 157 samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ trirātropoṣitaś caiva bhavet tulyo narādhipa 158 indra mārgaṃ samāsādya tīrthasevī narādhipa ahorātropavāsena śakra loke mahīyate 159 ekarātraṃ samāsādya ekarātroṣito naraḥ niyataḥ satyavādī ca brahmaloke mahīyate 160 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam ādityasyāśramo yatra tejorāśer mahātmanāḥ 161 tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum ādityalokaṃ vrajati kulaṃ caiva samuddharet 162 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha somalokam avāpnoti naro nāsty atra saṃśayaḥ 163 tato gaccheta dharmajña dadhīcasya mahātmanāḥ tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam 164 yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ 165 tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān trirātropoṣito rājann upavāsaparāyaṇaḥ labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati 166 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ māsi māsi samāyānti puṇyena mahatānvitāḥ 167 saṃnihityām upaspṛśya rāhugraste divākare aśvamedha śataṃ tena iṣṭaṃ bhavati śāśvatam 168 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca 169 udapānāś ca vaprāś ca puṇyāny āyatanāni ca māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ 170 yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ padmavarṇena yānena brahmalokaṃ sa gacchati 171 abhivādya tato yakṣaṃ dvārapālam arantukam koṭirūpam upaspṛśya labhed bahusuvarṇakam 172 gaṅgā hradaś ca tatraiva tīrthaṃ bharatasattama tatra snātas tu dharmajña brahma cārī samāhitaḥ rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam 173 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate 174 pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim 175 dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm ye vasanti kurukṣetre te vasanti triviṣṭape 176 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate 177 brahma vedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam tadāvasanti ye rājan na te śocyāḥ kathaṃ cana 178 tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya etat kurukṣetrasamantapañcakaṃ; pitā mahasyottara vedir ucyate |